________________
चन्द्रशतिप्रकाशिका टीका प्रा०१-८ सू० १४
मण्डलपदानां प्रमाणनिरूपणम् ८५
पूर्वोक्तप्रकारेण आहुः - कथयन्तीति तृतीया प्रतिपत्तिः | ३ | एषाऽपि मिथ्याभावपोषिका पूर्ववदेव गणितरीत्या परिधिपरिमाणस्यासाङ्गव्यगर्भितत्वात् । इति तिस्रोऽपि प्रतिपत्तयो मिथ्याभावप्ररूपकत्वादनादरणीयाः ।
साम्प्रतं भगवान् स्वमतं प्रदर्शयति- 'वयं पुण' इत्यादि 'वयं पुण' वयं पुनः ' एवं ' एवं वक्ष्यमाणप्रकारेण 'वयामो' वदामः - कथयामः कथमित्याह - 'ता' तावत् 'सव्वावि मंडलवया' सर्वाण्यपि मण्डलपदानि प्रत्येकम् 'अडयालीसं एगसद्विभागा जोयणस्स' अष्टचत्वारिंशद्
४८
एकषष्टिभागा ( ) योजनस्य ' बाहल्लेणं' वाहल्येन एतद् बाहल्यपरिमाणं नियतं सर्वत्र
६१
बाहल्यपरिमाणस्यैतावत एव सद्भावात् किन्तु 'अणियया' अनियतानि ' आयामविक्खं भेणं' आयामविष्कम्भेण, तथा 'परिखेकवेणं' परिक्षेपेण च आयामविष्कम्भपरिक्षेपैः पुनरनियतानि सर्वाण्यपि मण्डलपदानि वर्त्तन्ते तत्र सर्वेषां पृथक्त्वेन लाभात् अत आयामविष्कम्भपरिक्षेपैरनिय तानि सर्वाण्यपि मण्डलपदानि ‘अहिया' आख्यातानि कथितानि ' इति वदेज्जा' इति वदेत् गौतमः पुनः पृच्छति 'तत्थ णं' इत्यादि ' तत्थ णं' तत्र खलु एवं मण्डपदानामनियतत्वप्रतिपादने 'को हेऊ' को हेतुः किं कारणं का व्यवस्था ? ' इति वदेज्जा' इति वदेत् कथयतु हे भगवन् ! ततो भगवानाह-‘ता' तावत् अयण्णं जंबुद्दीवे दीवे' अयं खलु जम्बुद्वीपो द्वीपः 'जाव' यावत् अत्र यावत्पदेन जम्बूद्वीपपरिमाणं पूर्ववद् वोच्यम् पूर्वप्रदर्शितप्रकारः 'परिक्खेवेणं' परिक्षेपेण परिधिना 'पण्णत्ते' प्रज्ञप्तः कथितः । 'ता' तावत् ' जया णं' यदा खलु 'सूरिए ' सूर्यः 'सव्वन्भंतर मंडळ" सर्वाभ्यन्तरं मण्डलम् 'उवसंकमित्ता चार चरण, उपसंक्रम्य चारं चरति 'तया ण" तदा खलु 'सा मंडलवया' तानि मण्डल पदानि मण्डलस्थानानि 'अडयालीस एगसद्विभागजोयणस्स' अष्टचत्वारिंशदेकषष्टिभागा योजनस्य ' बाहल्लेणं' बाहयेन पृथुत्वेन,बाहल्यपरिमाणस्य नियतत्वेनाग्रे सर्वत्र एतावत्प्रमाणत्वेनैव व्याख्यातव्यम् । तथा 'नवनवइजोयणसहस्सा ई' नवनवतियोजन सहस्राणि 'छच्च चत्ताले जोयणसयाई' षट् च चत्वारिंशद् योजनशतानि चत्वारिंशदधिक षट् शतोत्तरनवनवतिसहस्र ( ९९६४०) योजनपर - मितानि ' आयामविक्खंभेणं' आयामविष्कम्भेण आयामेन निष्कम्भेण च, तथा 'तिण्णि जोयणसयसहस्साईं ' त्रीणि योजनशतसहस्राणि 'पण्णरस जोयणसहस्साई' पञ्चदशयोजन सहस्राणि 'ए गूणण वई जोयणाई' एकोननवतियोजनानि एकोननवत्यधिक पञ्चदशसहस्रोत्तरलक्षत्रय ( ३१५०८९) परिमितानि 'किंचिविसे साहियाई' किञ्चिद्विशेषाधिकानि 'परिक्खेवेणं' परिक्षेपेण वर्त्तन्ते 'तया णं' तदा खलु 'उत्तमकट्टपत्ते' उत्तमकाष्ठा प्राप्तः परमप्रकर्षसम्पन्नः तदग्रे प्रकर्षताया अभावात् 'उक्कोसए' उत्कर्षकः सर्वोत्कृष्ट ततोऽनन्तरमुत्कर्षाभावात् 'अट्ठारसमुहुत्ते दिवसे
"