________________
५२४
भगवतीस्त्रे छाया--कृतयुग्म कृतयुग्म संज्ञि पश्चन्द्रियाः खलु भदन्त ! कुत उत्पद्यन्ते ? उपपातश्चतसृभ्योऽपि गतिभ्यः। संख्येयवर्षायुष्कासंख्येयवर्षायुष्क पर्याप्तापर्याप्त केभ्यश्च न कुतोऽपि प्रतिषेधो यावदनुत्तरविमानमिति, परिमाणमपहारोऽवगाहना च यथा असंक्षिपश्चेन्द्रियाणाम् । वेदनीयवर्जानां सप्तानां कर्मप्रकृतीनां वन्धका वा अवन्धका वा वेदनीयस्य वन्धका नो अबन्धकाः । मोहनीयस्य वेदका वा अवेदका वा शेषाणां सप्तानामपि वेदका नो अवेदकाः । सातावेदका वा असातावेदका वा मोहनीयस्योदयिनो वा, अनुदयिनो वा, शेषाणां सप्तानामपि उदयिनो नो अनुदयिनः । नाम्नो गोत्रस्य चोदीरका नो अनुदीरकाः शेषाणां षण्णामपि उदीरका अनुदीरका वा । कृष्णलेश्या वा यावत् शुक्ल लेश्या वा। सम्यग्दृष्टयो वा, मिथ्या दृष्टयो वा, सम्यग् मिथ्यादृष्टयो वा । ज्ञानिनो वा अज्ञानिनो वा, मोनोयोगिनो वा वचोयोगिनः काययोगिनः । उपयोगो वर्णादिः, उच्छवासका वा निश्वासका बा आहारकाश्च यथा एकेन्द्रियाणाम् । विरताश्चाविरताश्च विरताविरताश्च । सक्रिया नो अक्रिया। ते खल भदन्त ! जीवाः किं सप्ताविधवन्धका वा अष्टविधबन्धका वा षविधबन्धका वा ? गौतम ! सप्तविधबन्धका वा यावत् एकविधबन्धका वा । ते खलु भदन्त ! जीवाः किमाहारसञोपयुक्ता यावत् परिग्रह सझोपयुक्ता वा नो सज्ञोपयुक्ताबा, गौतम! आहारसंज्ञोपयुक्ता यावत् नो संज्ञोपयुक्ता वा सर्वत्र पृच्छा मणितव्या, क्रोधकषायिनो वा यावत लोभषाययिनो वा अकषायिनो वा । स्त्रीवेदका वा पुरुषवेदका वा नपुंसकवेदका वा अवेदका वा । स्त्रीवेदबन्धका पुरुषवेदबन्धका वा नपुंसकवेदबन्धका वा अबन्धका वा । संज्ञिना, नो असं शिनः । सेन्द्रिया नो अनिन्द्रियाः । संस्थितिः जघन्येनैकं समयमुत्कर्षण सागरोपमशतपृथक्त्वं सातिरेकम् । आहारस्तथैव यावत् नियमतः पदिशि । स्थितिघन्येनैकं समयमुकर्षण त्रयस्त्रिंशत्सागरोपमाणि । षट् समुद्घाता आदिकाः मारणान्तिकसमुद्घातेन समवहता अपि म्रियन्ते । असमवहता अपि म्रियन्ते । उद्वर्तना यथैवोपपातः न कुत्रापि प्रतिषेधो यावदनुत्तरविमानमिति । अथ भदन्त । सर्वे माणा यावदनन्त कृतः। एवं षोडशस्वपि युग्मेषु भणितल्यं यावदनन्तकृत्वा नवरं परिमाणं यथा द्वीन्द्रियाणाम् शेषं तथैव । तदेव भदन्त ! तदेवं भदन्त ! इति ।४०.१।
प्रथमसमय कृतयुग्म कृतयुग्मसंज्ञिपश्चन्द्रियाः खलु भदन्त ! कुत उत्पद्यन्ते उपपातः परिमाणमाहारो यथा एतेषामेव प्रथमोद्देशके । अवगाहना बन्धो वेदो वेदना उदयिन उदीरकाश्च यथा द्वीन्द्रियाणां प्रथमसमयानाम् । तथैव कृष्णलेश्या वा यावत् शुक्ललेश्या वा । शेषं यथा द्वीन्द्रियाणां यावदनन्तकृत्वः। नवरं स्त्रीवेदका वा पुरुषवेदका वा नपुंसकवेदका वा संज्ञिनोऽसंजिनः । शेषं तथैव । एवं षोडशस्वपि युग्मेषु परिमाणं तथैव सर्वम् तदेवं भदन्त ! तदेवं भदन्त ! इति ।
શ્રી ભગવતી સૂત્ર : ૧૭