SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. १ पुण्डरीकनामाध्ययनम् छाया-आथापर स्तृतीयः पुरुषजात ईश्वरकारणिक इत्याख्यायते। इह खलु पाच्यां वा ४ सन्त्येके मनुष्या भान्ति आनुपूया लोकमुपपन्नाः तद्यथा-आर्या वा एके यावत् दुरूपा एके, तेषां च खलु महान् एको राजा भवति यावत् सेना. पतिपुत्राः। तेषां च खलु एकः श्रद्धावान् भवति कामं तं श्रमणाश्च ब्राह्मणाश्च सम्मधाषुः गमनाय यावत्, यथा-मया एष धर्मः साख्यातः सुपज्ञप्तो भवति-इह खलु धर्माः पुरुषादिकाः पुरुषोत्तराः पुरुषप्रणीताः पुरुासंभूताः पुरुषप्रद्यौतिताः पुरुषमभिसमन्वागताः पुरुषमेव अभिभूय तिष्ठन्ति । तद्यथानाम गण्डः स्यात् शरीरे जातः शरीरे संवृद्धः, शरीरेऽभिसमन्वागतः, शरीरमेव अभिभूय तिष्ठति एवमेव धर्मा अपि पुरुषादिका यावत् पुरुषमेव अभिभूय तिष्ठन्ति । तद्यथानाम अरतिः स्थात् शरीरे जाता शरीरे संवृद्धा शरीरे अभिसमन्वागता शरीरमेव अभिभूय तिष्ठन्ति, एवमेव धर्मा अपि पुरुषादिका यावत् पुरुषमेव अभिभूय तिष्ठन्ति । तद्यथा नाम वल्मीकं स्यात् पृथिवीजातं पृथिवीसंवृद्धं पृथिवीमभिसमन्वागतं पृथिवीमेव अभिभूय तिष्ठति, एवमेव धर्मा अपि पुरुषादिकाः यावत् पुरुषमेव अभिभूय तिष्ठन्ति । तद्यथानाम वृक्षः स्यात् पृथिवी जातः पृथिवीसंदृद्धः पृथिवीमभिसमन्वागतः पृथिवीमेव अभिभूय तिष्ठति, एवमेव धर्मा अपि पुरुषादिका यावत् पुरुषमेव अभिभूय तिष्ठन्ति । तद्यथा नाम पुष्करिणी स्यात् पृथिवी जाता यावत् पृथिवीमेव अभिभूय तिष्ठति एवमेव धर्मा अपि पुरुषादिका यावत् पुरुषमेव अभिभूय तिष्ठन्ति । तद्यथा नाम उदकपुष्कलं स्यात् उदकजातं यावद् उदकमेव अभिभूय तिष्ठति, एवमेव धर्मा अपि पुरुषादिका यावत् पुरुषमेव अभिभूय तिष्ठन्ति। तद्यथानाम उदकबुद् बुदः स्यात् उदकजातो यावद् उदकमेव अभिभूय तिष्ठति, एवमेव धर्मा अपि पुरुषादिका यावत् पुरुषमेव अभिभूय तिष्ठन्ति। यदपि चेदं श्रमणानां निग्रन्थानामुद्दिष्टं प्रणीतं व्यञ्जितं द्वादशाङ्गं गणिपिटकं तद्यथा-आचारः सूत्रकृतो यावद् दृष्टिवादः सर्वमेतन्मिध्या। नैतत्तव्यं नैतद् याथातथ्यमिदं सत्यम् इदं तथ्यम् इदं याथातथ्यम्, ते एवं संज्ञां कुर्वन्ति ते एवं संज्ञा संस्थापयन्ति ते एवं संज्ञा सूपस्थापयन्ति, तदेवं ते तज्जातीयं दुःखं नैव त्रोटयन्ति शकुनिपञ्जरं यथा । ते नो एवं विप्रतिवेदयन्ति-तद्यथा-क्रिया इति वा यावद् अनिरय इति वा। एवमेव ते विरूपरूपैः कर्म समारम्भैः विरूपरूपान् कामभोगान् समारभन्ते भोगाय । एवमेव ते अनार्या विपतिपन्ना एवं श्रद्दधाना यावदिति ते नोऽर्वाचे नो पाराय अन्तरा कामभोगेषु विषण्णा इति तृतीयः पुरुषजात ईश्वरकारणिक इत्याख्यातः ॥ मू०११ ॥ श्री सूत्रकृतांग सूत्र : ४ ।
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy