SearchBrowseAboutContactDonate
Page Preview
Page 737
Loading...
Download File
Download File
Page Text
________________ ७२६ सूत्रकृताङ्गसूत्रे भूत्वा अगारादनगारित्वं प्रव्रजन्ति एषां च आमरणान्तो दण्डो निक्षिप्तः, ये इमे अगारमावसन्ति एतेषां खलु आमरणान्तो दण्डो नो निक्षिप्तः केचिच्च खलु श्रमणा: यावद् वर्षाणि चतुःपञ्चषइदशानि वा अल्पतरं वा भूयस्तरं वा विहत्य देशम गारमावसेयुः ? । इन्त क्सेयुः । तस्य तं गृहस्थं घ्नतः तत्पत्याख्यानं भग्नं भवति ? नायमर्थः समर्थः, एवमेव श्रमणोपासकस्याऽपि त्रसेषु प्राणेषु दण्डो निक्षिप्तः स्थावरेषु दण्डो न निक्षिप्तः तस्य खलु तं स्थावरकायं नतः तत् प्रत्या. ख्यानं नो भग्न भवति तदेवं जानीत निर्ग्रन्थाः , एवं ज्ञातव्यम् । भगवांश्च उदाह -निर्ग्रन्याः खलु प्रष्टव्या आयुष्मन्तो निर्ग्रन्थाः, इह खलु गाथापतिवा गाथापति पुत्रो-वा तथामकारेषु कुलेषु आगत्य धर्मश्रवणार्थ मुपसंक्रमेयुः ? हन्त ! उपसंक्रमेयुः, तेषां च खलु यथापकाराणां धर्म आख्यातव्यः ? हन्त आख्यातव्यः। किं ते तथाप्रकारं धर्म श्रुत्वा निशम्य एवं वदेयुः-इदमेव नम्रन्थ प्रवचनं सत्य मनुत्तरं कैवलिकं परिपूर्ण संशुद्धं नैयायिक शल्यकर्तनं सिद्धिमार्ग मुक्तिमार्गः निर्माणमार्ग निर्वाणमार्गः अवितथमसंदिग्धं सर्वदुःखपहीणमार्गम्: अत्र स्थित्वा जीवाः सिध्यन्ति बुध्यन्ते मुश्चन्ति परिनिर्वान्ति सर्वदुःखानामन्तं कुर्वन्ति, तदाज्ञया तथा गच्छाम स्तथा तिष्ठामस्तथा निषीदाम स्तथा त्वचं वर्तयाम स्तथा भुञ्जामहे तथा भाषामहे तथा अभ्युत्तिष्ठामस्तथा उत्थाय उत्तिष्ठाम इति प्राणानां भूतानां जीवानां सत्त्वानां संयमेन संयच्छाम इति वदेयुः? हन्त वदेयुः। कि ते तथापकाराः कल्प्यन्ते प्रवाजयितुम् ? हन्त कल्प्यन्ते। किं ते तथापकराः कल्प्यन्ते मुण्डयितुं हन्त कल्प्यन्ते । किं ते तथामकाराः कल्प्यन्ते शिक्षयितुं? हन्त कल्प्यन्ते । किं ते तथाप्रकाराः कल्प्यन्ते उपस्थापयितुम् ? हन्त कल्प्यन्ते । तैश्च खलु, तथाप्रकारैः सर्वपाणिषु यावत् सर्वसत्वेषु दण्डो निक्षिप्तः ? हन्त निक्षिप्तः। ते खल्लु एतद्रूपेण विहारेण विहरतो यावद् वर्षाणि चतुः पञ्चानि षड्दशानि वा अल्पतरं वा भूयस्तरं वा देशं विहृत्य अगारं व्रजेयुः ? हन्त व्रजेयुः । तैश्च खलु सर्वप्राणेषु यावत्सर्वसत्त्वेषु दण्डो निक्षिप्त: ! नायमर्थः समर्थः तस्य यः स जीवः येन परतः सर्वप्राणेषु यावत्सर्वसत्त्वेषु दन्डो नो निक्षिप्तः तस्य यः स जीवः येन आरात् सर्वप्राणेषु यावत् सर्वसत्वेषु दण्डो निक्षिप्तः, तस्य स जीवः येन इदानीं सर्वमाणेषु यावत् सर्वसत्वेषु दण्डो न निक्षिप्तो भवति परतोऽसंयतः आरात् संयतः इदानीमसंयतः, असंपतस्य खलु सर्वप्राणेषु यावत् सर्वसत्वेषु दण्डो नो निक्षिप्तो भवति तदेवं जानीत निर्ग्रन्थाः । तदेवं ज्ञातव्यम् । भगवांश्च उदाह-निर्ग्रन्थाः खलु पष्टव्या आयुष्मन्तो निर्ग्रन्थाः। इह खलु परिव्राजका वा परिव्राजिका वा अन्यतरेभ्य स्तीर्थायतनेभ्य आगत्य श्री सूत्रतांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy