SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ सूत्रकृतागसूत्रे अभिनिवर्त्य खलु उपदर्शयेद् अयमायुष्मन् ! मांसः इदम् अस्थि एवमेव नास्ति कोऽपि पुरुषः उपदर्शयिता अयमायुष्मन् ! आत्मा इदं शरीरम् ! तद्यथा नामकः कोऽपि पुरुषः करतलादामलकम् अभिनिर्वयं खलु उपदर्शयेद् इदम् आयुष्मन् ! करतलम् इदमामलकम् एवमेव नास्ति कोऽपि पुरुषः उपदर्शयिता अयमायुष्मन् ! आत्मा इदं शरीरम् । तद्यथा नामकः कश्चित् पुरुषो दध्नो नवनीतम् अभिनिर्वयं खलु उपदर्शयेद् इदमायुष्मन् ! नवनीतम् इदं तु दधि, एवमेव नास्ति कोऽपि पुरुषः उपदर्शयिता अय. मायुष्मन् ! आत्मा इदं शरीरम् । तद्यथा नामकः कोऽपि पुरुषः तिलेभ्यस्तैलम् अभिनिर्वयं खलु उपदर्शयेद् इदमायुष्मन् ! तैलम् अयं पिण्याकः एवमेव नास्ति कोऽपि पुरुषः उपदर्शयिता आयुष्मन् ! आत्मा इदं शरीरम् । तद्यथा नामकः कोऽपि पुरुषः इक्षुतः क्षोदरसम् अभिनिवयं खलु उपदर्शयेद् अयम् आयुष्मन् ! क्षोदरसः अयं क्षोदः एवमेव यावद् शरीरम् । तद्यथा नामकः कोऽपि पुरुषः अरणितः अग्निम् अभिनिबत्य खलु उपदर्शयेत् , इयम् आयुष्मन् ! अरणिः अयमग्निः एवमेव यावत् शरीरम् । एवम् असन् असंवेद्यमानः येषां तत् स्वाख्यातं भवति, तद्यथा-अन्यो जीवः अन्यच्छरीर तस्मात् ते मिथ्या । स हन्ता तं घातयत, खनत, क्षणत, दहत, पचत, आलुम्पत, विलुम्पत, सहसा कारयतः विपरामृशत, एतावान् जीवः नास्ति परलोकः। ते नो एवम् विपतिवेदयन्ति तद्यथा-क्रियां वा, अक्रियां वा, मुकृतं वा, दुष्कृतं वा, कल्पागं वा, पापकं वा, साधु वा, असाधु वा, सिद्धिं वा, असिद्धिं वा, निरयं वा, अनिरयं वा, एवं ते विरूपरूपः कर्मसमारम्भैः विरूपरूपान् कामभोगान समारभन्ते भोगाय। एवम् एके प्रागल्भिकाः निष्क्रिम्य मामकं धर्म प्रज्ञापयन्ति, तं श्रदधानाः तं प्रतियन्तः तं रोचमानाः, साधु स्वाख्यातं श्रमण इति वा माहन इति वा कामं खलु आयुष्मन् ! त्वां पूजयामि, तद्यथा-अशनेन वा पानेन वा खायेन वा स्वायेन वा, वस्त्रेण वा, प्रतिग्रहेण वा, कम्बलेन वा, पादपोञ्छनेन वा, तत्रैके पूजायै समुस्थितवन्तः, तत्रैके पूजायै निकावितवन्तः । पूर्वमेव तेषां ज्ञातं भवति श्रमणाः भविष्यामः अनगाराः अकिचना अपुत्राः अपशवः परदत्तमोजिनः भिक्षा पापं कर्म न करिष्यामः, समुत्थाय ते आत्मना अप्रतिविरताः भवन्ति । स्वयम् आददते अन्यानपि आदापयन्ति अन्यमपि आददन्तं समनुजानन्ति । एवमेव ते स्त्रीकामभोगेषु मच्छिताः गृद्धाः प्रथिताः अध्युपपन्नाः लुब्धाः रागद्वेषवशार्ताः ते नो आत्मानं समुच्छेदयन्ति ते नो पर समु. च्छेदयन्ति, ते नो अन्यान् प्राणान् भूतानि जीवान सत्चान् समुच्छेदयन्नि, पहीणाः पूर्वसंयोगाद आर्य मार्गम् अमाप्ता इति ते नो अर्बाचे नो पाराय अन्तरा काममो. गेषु निषण्णाः इति प्रथमः पुरुष नातः तज्जीवतच्छरीरकइति आख्यातः ॥सू०९॥ શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy