SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ १०६ सूत्रकृताङ्गसत्रे जाणेज्जा, तं जहा-जीवा चेव अजीवा चेव, तसा चैव थावरा चेव ॥सू० १३॥ छाया-अथ ब्रवीमि पाच्या वा४ सन्ति एके मनुष्या भवन्ति, तद्यथा-आर्या वा एके, अनार्या वा एके, उच्चगोत्रा वा एके, नीचगोत्रा के कायवन्तो वा एके, हस्ववन्तो वा एके, सुवर्णा वा एके, दुर्वर्णा वा एके, सुरूपा वा एके, दुरूपा वा एके तेषां च खलु जनजानपदाः परिगृहीता भवन्ति, तद्यथा-अल्पतरा वा भूयस्तरा वा। तथाप्रकारेषु कुलेषु आगत्य अभिभूय एके भिक्षाचर्यायां समुपस्थिताः सतोवाऽपि एके ज्ञातीन च अज्ञातीन् च उपकरणं च विप्रहाय भिक्षाचर्यायां समुत्थिताः असतो वाऽपि एके ज्ञातीन् च अज्ञातीन् च उपकरणं च विष हाय भिक्षाचर्यायां समुत्थिताः। ये ते सतो वा असतो वा ज्ञातीन् च अज्ञातीन् च उपकरणं च विमहाय भिक्षाचर्यायां समुस्थिताः, पूर्वमेव तैज्ञातं भवति तद्यथा इह खलु पुरुषः अन्यदन्यद् ममाऽर्थाय एवं विप्रतिवेदयति, तद्यथा-क्षेत्रं मे वास्तु मे हिरण्यं मे सुवर्ण मे धनं मे धान्यं मे कांस्यं मे दुष्यं में विपुलधनकनकरत्नमणि मौक्तिकशशिलाप्रवालरक्तरत्नसत्सारस्वापतेयं मे, शब्दा मे, रूपाणि मे, गन्धा मे रसा मे, स्पर्शा मे, एते खलु मे कामभोगाः, अहमपि एतेषाम् । अथ मेधावी पूर्वमेव आत्मना एवं समभिजानीयात्, तद्यथा-इह खलु ममान्यतरद् दुःखं रोगातङ्कः समुत्पद्येत अनिष्टः, अकान्तः, अभियः, अशुभः, अमनोज्ञः, अमनाम: दुःखं नो सुखं तद्हन्त ! भयत्रातारः! कामभोगाः, ममान्यतरद् दुःखं रोगातङ्गं पर्याददत । अनिष्टमकान्तममियमशुभममनोज्ञ ममन आमं दुःखं नो सुखम, तदहं दुख्यामि वा शोचामि वा जूरामि वा तेपे वा पीडयामि वा परितप्ये वा अस्मान्मे अन्यतराद् दुःखाद् रोगातङ्कात् पतिमोचयत अनिष्टाद् अकान्ताद् अमियाद् अशुभाद् अमनोज्ञाद् अमनामाद् दुःखान्नो सुखात्, एवमेव नो लब्धपूर्ती भवति । इह खलु कामभोगाः नो त्राणाय वा नो शरणाय वा पुरुषो वा एकदा पूर्व कामभोगान् विमजहाति, कामभोगा वा एकदा पूर्व पुरुष विप्रजहाति, अन्ये खलु कामभोगाः, अन्योऽहमस्मि तत् किमङ्ग पुनर्वय मन्यान्येषु कामभोगेषु मूर्छामः, इति संख्याय खलु वयं कामभोगान् विमहास्यामः, अथ मेधावी जानीयाद् वहिरङ्गमेतत् इदमेव उपनीततरं तद्यथा-माता मे, पिता मे, भ्राता मे, भगिनी में भयो मे, पुत्रा में, दुहितारो मे, प्रेष्या मे, नप्ता में, स्नुपा मे सुहन्मे, पियो मे, सखा मे, स्वजनसंग्रन्थसंस्तुता मे । एते मम ज्ञातयोऽहमप्येतेषाम् , एवं स मेधावी पूर्व मेंव आत्मना एवं समभिजावीयात्-इह खलु શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy