________________
( ५ )
योऽस्मान् वराकानघपङ्कलिप्तान् सौवोपदेशोदकसेचनेन । प्रक्षाल्य पावित्र्ययुतांश्चकार कथं न ध्यायेम प्रभुं मुनिं तम् ॥
( ६ ) यदीयशिष्या भुवि भानुदेश्याः प्रकाशयन्ते गुरुनाम पूज्यम् । तत्रापि सूरिरतिरिच्यतेऽयं गुरूयमाणो जयधर्मसूरिः ॥
( ७ )
कीनाश ! दुष्टाधम ! किं कृतं रे ? प्राणा हृतास्तं हरता मुनीनम् । अस्तंगते भानुसमे मुनीशे मग्नं समग्रं जगदन्धकारे ॥ ( ८ )
नो खेदं धत्त यूयं नहि निधनगतो वृद्धिचन्द्रो गुरुर्वः, किं चायं लब्धलब्ध्या निजविमलवपुर्जीर्णमाबोध्य नव्यम् । रूपं श्रीधर्मरूपं विजयसहितमा बिभ्रदानन्दशाली, हिंस्रेऽस्मिन् पूर्वदेशे विहरति सततं तं शरण्यं कुरुध्वम् ॥ ( ९ )
।
प्रत्यूषाण्डं निशारत्नं यावद् भाति नभस्तले । यावद् वीरवचो जीयाद् तावत् कीर्त्तिर्विभो ! तव ॥
श्री यशोविजय जैन पाठशाला वाराणसी सं. १९६५ अक्षयतृतीया
श्रीवृद्धिचन्द्रगुरुचरणोपासिनो वलभीवास्तव्याः श्राद्धाः