SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ -कल्प-स्तोत्रादि-सन्दोह ] -[ ३७] [१२] जगत्पूज्य-श्रीमद्विजयधर्मसूरिगुरुभिः विरचितं श्रीशङ्खेश्वरपार्श्वनाथाष्टकम् । श्रेय पति श्रीनरदेवपारगं सदा सदाचारविचारपारगम् । भक्त्या जनानां सुखदानतत्परं नमामि शर्केश्वरधामसंस्थितम् ॥१॥ कृतोपसर्ग कमठेन कर्मठं तथापि निश्चिन्तनिवाधमानसम् । विधृतदुःखं शमतासरोवरं नमामि शर्केश्वरधामसंस्थितम् ।।२।। भवाटवीं बम्भ्रमता मया नुतं भवाब्धिपोतं सुविशाललोचनम्। सदा प्रसवं मुखशान्तिकारकं नमामि शङ्केश्वरधामसंस्थितम् ॥३॥ अगाधसिद्धान्तपयोधिशेवधिमनाथनाथं सततं सुबोधिदम् । कृतापराधेषु जनेषु शान्तिदं नमामि शङ्केश्वरधामसंस्थितम् ॥४॥ कषायवर्गे निकषायचित्तकं सुसाधुसङ्के विकथादिवारकम् । अज्ञानमूढे सुकृतादिदेशकं नमामि शङ्केश्वरधामसंस्थितम् ॥५॥ कषायदावानलदाहनीरदं कुसङ्गसङ्गादिविषाहिमन्त्रदम् । अनादिसंसारविकारजायुदं नमामि शह्वेश्वरधामसंस्थितम् ॥६॥ सदागमादेनितरां प्ररूपकं कुवासनादेः प्रबलं विडम्बकम् । अनेकविघ्नालिविपत्तिनाशकं नमामि शङ्केश्वरधामसंस्थितम् ॥७॥ यस्य प्रसादेन जगजनानामनादिजन्यं क्षयमेति पापम् । तं देववन्धं सुरराजसेव्यं नमामि शक्त्या प्रभुपार्श्वदेवम् ॥८॥ इति श्रीशङ्ग्रेश्वरपार्श्वनाथाष्टकम् । * શ્રી યશોવિજ્યજી જેનગ્રન્થમાલા, પ્રકાશિત “શ્રી જૈન સ્તોત્ર संद" भन्ने मा। . २३५ माथी उतायुं. १ जायु औषधम् ।
SR No.006291
Book TitleSankheshwar Mahatirh
Original Sutra AuthorN/A
AuthorJayantvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year1942
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy