________________
कोपाग्निस्त्वाक्षेपिणामाकर्षतां तपःकाष्ठानि दहति क्षणात् वनकाष्ठानीव दावाग्निः (11)।। (12) (13) (14)।। महाराजत्ति सम्बोधनं श्लोकस्यान्यस्मात् कस्माच्चिदन्वयादिहावतारितत्वं प्रकटीकरोति (15)। हृष्टं करोति पुरुषमनिरुध्यमानः कोपः, विमुच्यमानस्तु भस्म करोति भस्मीकरोति, हृष्टं च भस्म च समीक्ष्य प्राज्ञो जितात्मा सदा कोपं निरुन्ध्यात् (16)।। तारायणीयमध्ययनम्।
37 सर्वमिदं जगत् पुरोऽदकमासीत्। अत्राण्डं संतप्तमत्र लोकः सम्भूतः, अत्र साश्वासो जातः, इदं नोऽस्माकं मते वरुणविधानमिति केचित्। अन्ये तूभयतः कालमुभयतःसंध्यं क्षीरं नवनीतं मधु समित्समाहारं क्षारं शङ्ख च पिण्डयित्वाऽग्निहोत्रकुण्डं प्रतिजागरयमाणो विहरिष्यामीति तस्मादेतत् सर्वमिति ब्रवीमीति। वयं तु नवि त्ति न माया नैवाद्भुतविधानं मन्तव्यं, किं तु न कदाचिन्नासीन्न कदाचिन्न भवति न कदाचिन्न भविष्यति च लोक इति वदामः। पप्पण्णं इणं सोच्च त्ति प्रत्युत्पन्नं वर्तमानमिदं श्रुत्वेति त्रीणि पदानि श्लोकपाद इव दृश्यन्ते न च पूर्वगतेन न नैव पश्चाद्गतेन सम्बद्धं शक्यानि। सूर्यसहगतो निर्ग्रन्थो गच्छेदर्थाद् यत्रैव सूर्योऽस्तमियात् क्षेत्रे वा निम्ने वा तत्रैवोषित्वा प्रादुः प्रभातायां रजन्यामतीतायां रात्रावुत्थिते सूर्ये सहस्ररश्मौ दिनकरे कीदृशे? तद्
औपपातिकपाठेनोच्यते : विकसितोत्पले चोन्मीलितकमलकोमले च पण्डुरप्रभे रक्ताशोकप्रकाशे च किंशुकशुकमुखगुञ्जार्धरागसदृशे च कमलाकरषण्डबोधके तेजसा ज्वलति सति एवं तत्क्षणमेव प्राचीनां वा प्रतीचीनां वा दक्षिणां वा उदीचीनां वा दिशं पुरतो युगमात्रमेव प्रेक्षमाणो यथारीत्येतुं तस्य कल्पते निर्ग्रन्थस्य।। श्रीगिरीयमध्ययनम्।
38 यत् सुखं सुखेन लब्धं तद् अत्यन्तसुखमेव, यत् तु दुःखं दुखेन लब्धं मा मम तेन समागमो भूद् (1)।। इति बौद्धर्षिणा भाषितम्।—मनोज्ञं भोजनं भुक्त्वा मनोज्ञे च शयनासने मनोज्ञेऽगारे बौद्धभिक्षुः समाहितो ध्यायति (2)।। स एवामनोज्ञं भोजनं भुक्त्वा शयनासने चामनोज्ञे गृहेऽमनोज्ञे दुःखं ध्यायत्यार्तमपध्यानं करोतीत्यर्थः (3)।। तं तादृशमेवमनेकवर्णकमन्यतीर्थकं भिक्षु नानागुणपदार्थं वा परित्यज्य पण्डितः प्राज्ञो नान्यत्र लुभ्यति, एतद् यथार्थबुद्धस्य शासनम् (4)।। नानावर्णेषु शब्देषु रूपेषु गन्धेषु रसेषु स्पर्शेषु श्रोत्रादिप्राप्तेषु गृद्धिं वाक्प्रदोषं वा सम्यग् वर्जयेद् बुद्धिमान् पण्डितः (5)।। जाग्रतोऽप्रमत्तस्य मुनेरिन्द्रियाणि पञ्च
ऋषिभाषित संस्कृत टीका 457