________________
३७८
पाश्यकीर्तिविरचिता
वा किल देवो ऽभूदित्यसत्यमेतत् । अयं निगृह्यतामिति । तस्य निग्रहकरणे आसनकम्पेन ज्ञात्वागत्य तेन देवेन राज्ञस्ताडनादिरुपसर्गः कृतः । तदनु राज्ञा पादयोः पतित्वा रक्ष रक्षेत्युक्ते ऽहमसमर्थः श्रेष्ठी समर्थ इति भणितेन राजा श्रेष्ठिसमीपमागत्य क्षन्तव्यमित्युक्तवान् । श्रेष्ठिना देवो निवारितः । स चात्मस्वरूपं प्रतिपाद्य स्वावासं गतः । राजादयस्तमतिशयं दृष्ट्वा धर्मनिरता बभूवुः । श्रेष्ठी च श्रियान्नदानं निवायं संचितद्रव्येण कुक्कुरवसतं कृत्वा सुखेन स्थितः । इत्यनस्तमितधर्मकथां श्रुत्वा पवनवेगो हृष्टः । सकलभावकव्रतानि गृहीतवान् । तदनु तौ वसुपूज्यकेवलिनं स्तुत्वा स्वावासं गतौ । सुखेन स्थितौ ।
इति श्रीरामचन्द्रेण मुनिना गुणशालिना । ख्याता धर्मपरीक्षा सा कृताकृतरियं ततः ॥ श्रीपूज्यपादसद्वंशे जातो ऽसौ मुनिपुङ्गवः । पद्मनन्दी इति ख्यातो भव्यव्यूहप्रवन्दितः ॥ तच्छिष्यो देवचन्द्राख्यो भद्रश्चारुगुणान्वितः । वेदिता सर्वशास्त्राणां ख्यातो धर्मरताशयः ॥ स च शुद्धव्रतोपेतः समयादिविवजितः । समयः सर्वसत्त्वानां तत्प्रार्थनवशाद् वरः । यावद् व्योम्नि प्रवर्तन्ते शशाङ्करवितारकाः । तावद् धर्मपरीक्षेयं वर्तिषीष्ट सदाशये ॥ पद्मनिवासभूता हि कथा पश्चायनों वराम् । तथा धर्मपरीक्षां च मिथ्यात्वाज्ञानध्वंसिनीम् ॥
इति धर्मपरीक्षाकथा समाप्ताः ॥ छ ॥ शुभं भवतु लेखक पाठकयोः । ग्रं २०० । श्रीसरस्वत्यै नमः ।
श्रीदेशीयगणाग्रगण्य सकलसंयमगुणाम्भोधि-श्रीपार्श्व कीर्तिमुनिराजस्य धर्मपरीक्षा ग्रन्थस्य शुभमस्तु | कल्याणमस्तु ।
O