________________
३७४
पाश्वंकीतिविरचिता
वुः। इति सर्वैः पर्यालोच्य
राजगहे राजा चन्द्ररथः । तस्य द्वे भार्ये । तयोः पुत्राभावादीश्वराराधनं कृतम् । तेन च तुष्टेन तस्मा औषधगुटिका एका दत्ता। या इमां भक्षयति तस्याः पुत्रो भविष्यति इति । तां गृहीत्वागतेन राज्ञा चिन्तितम् । यद्येकस्यै दीयते अपरा दुःखिनो भाविनी इति द्वावंशौ कृत्वा उभाभ्यां दत्तवान् । तयोर्गमें स्थिते नवमासावसाने प्रसूतौ सत्याम् उभयोः पुत्रस्यार्धद्वयं जातम् । महेश्वरेण दत्तोऽप्येवंविधः पुत्रः किं क्रियते। अप्रयोजकत्वात् अर्धद्वयं श्मशाने निक्षिप्तम् । तत्र गोमयं गृह्णन्त्या जरासंज्ञया वनितया मेलापितम् । ततो जरासन्धनामासुरो जात इति ।
तथान्यापि-ईश्वरस्य गौर्या सह दिव्यवर्षसहस्राननवरतं क्रीडाकरणे देवा यद्येवंविधायां क्रीडायां पुत्रो भविष्यति, स महानसुरो भविष्यतीति सचिन्ता बभूवः। इति सर्वैः पय गौरीभ्राताग्निः प्रार्थितः । त्वं महेश्वरसुरतगृहं गच्छ, येन सा लज्जयोत्थाय गच्छतीति प्रार्थनावशात् स गतः। सा तं दृष्ट्वोत्थिता । तदनु कुपितो हरः भणति । हे निकृष्टवीर्य, क्षरणावसरे किमित्यागतोऽसि । इदानी कि भूमौ पातो विधीयते। स्वमुखं प्रसारय। नो चेत् त्वं जानासीति जिते प्रसारितं तेन । तत्र तत्पातयति स्म । तदुक्तम् ।
रेतसा यदि रुद्रेण तपितो हव्यवाहकः।
मानवैस्तन्न कर्तव्यं न दैवचरितं चरेत् ॥ इति । तत्सामर्थ्यमसहमानः कुष्ठी जातो ऽनलः। एकस्मिन् ग्रामे गङ्गादयः षड् ब्राह्मणपुग्यो ज्नेरुपासनं कुर्वन्त्यः स्थिताः। तासामङ्गं दृष्ट्वा तत्र क्षिप्तम् । षण्णां षडंशा उत्पन्नाः। तत उद्याने निक्षिप्ताः केनचिन्मेलापिताः। ततः षण्मुखः संजात इति । एताः सर्वाः कथाः सन्ति नो वा। सत्यं सन्ति । तहि शिरस्सु छिन्नेष्वपि रावणस्य जीवनम् । भिन्नपुरुषकबन्धे दधिमुखशिरस्संधानम् । अन्यत्रोत्पन्नानामंधानां संधानं चोचितं न मम जीवनं संधानं चेति कथमुचितम् ॥
___ भवत्वेतत्सर्वम् । कथं दूरस्थेन शिरसा भक्षितेषु फलेषु उदरं तृप्यति । किं भवदागमे
नास्ति । नास्ति । त्वया
मत्स्यः प्रीणाति द्वौ मासौ त्रीन मासान् हरिणो। शकुनिश्चतुरो मासान् पञ्च मासांश्च हरवः॥ शशः प्रोणाति षण्मासानश्वः सप्त तु एव च । अष्ट मासान् वराहेण मेषो मासान्नवैव च ॥ महिषो दश मासांश्च पशुरेकादशः स्मृतः।
संवत्सरं तु भिण्यां पशूनां पायसेन वा ॥ इति वचनात् । इह मत्स्यादिमांसे ब्राह्मणेभ्यो दत्ते सति स्वर्गस्थाः पितरः कथं तृप्यन्ति । तैरवादि । ब्राह्मणानां मुखमाहात्म्यात्। तेनोक्तम् । कोऽयं ब्राह्मणो नाम । कि शरीरम् । कि जातिः। किं जीवः। कि कुलम् । किं योनिः। किं ज्ञानम् । कि शौचाचारः। किं तपः। कि संस्कारः। इति गत्यन्तराभावात् । न तावत् शरीरम् । क्षत्रियादीनां साधारणत्वात् । किं च मृतस्य ब्राह्मणस्य शरीरवहने बन नां ब्रह्महत्यादिरपि स्यात् । तथा जातिरपि ब्राह्मणो न भवति । तस्या अपि साधारणत्वात् । सा साधारणेति कथं ज्ञायते। यथा गोमहिष्यादीनां परस्परं गमने अपत्यावर्शनात्तभेदो ज्ञायते। न तथा चाण्डालब्राह्मणादीनां भेदः। परस्परं गमने गर्भदर्शनात।