________________
20
॥ अथ स्नात्रम् ।। पुण्याहं तदहः क्षणोऽयमनघः, पूजास्पदं तत्पदं, सास्तीर्थभुवोऽपि ता जलाभृत,स्तद् वारि हारि प्रभोः। तेऽनर्घा घुसृणादिगन्धविधयः, कौम्भास्तु कुम्भाश्च ते, धन्या यान्ति कृतार्थतां जिनपतेः, स्नात्रोपयोगेन ये ।।१।। कुम्भाः काञ्चनरत्नराजतमयाः, स्त्रक्चन्दनैश्चर्चिताः, कर्पूरागरुगन्धबन्धुरतराः, क्षीरोदनीरोदयाः । भव्यैः स्नात्रकृते जिनस्य पुरतो, राजन्ति राजीकृताः, सार्वाः स्वीयशुभद्धिसङ्गममये, माङ्गल्यकुम्भा इव ।।२।। श्रेणीभूय समुत्थिताः करधृतैः, कुम्भै हृदग्रे मुदा, भव्या भान्ति जिनस्य मज्जनकृते, पौरन्दर-श्रीजुषः। संसारौघ-मिवोत्तरी-तुमनसोऽहंदैवते मानस,-प्रसादे कलशाधिरोपमिव वा, ते कर्तुकामा इव ।।३।। गीतातोद्यौरुनादैः सरभसममरारब्धनाट्यप्रबन्धे, नानातीर्थोदकुम्भै रजतमणिमयैः शातकुम्भर्जिनः प्राक् । मेरोः शृङ्गे यथेन्द्रैः सजययजयरवैर्मज्जितो जन्मकाले, कल्याणीभक्तयस्तं विधिवदिह तथा भाविनो मज्जयन्तु ।।४।। जैने स्नात्रविधौ विधूतकलुषे विश्वत्रयीपावने, क्षुदोपद्रव-विद्रव-प्रणयिनां ध्यातं त्वति (!) प्राणिनाम् । श्रीसद्धे सुजने जने जनपदे -धर्मक्रियाकर्मठे, देवाः श्रीजिन-पक्ष-पोष-पटवः कुर्वन्तु शान्तिं सदा ।।५।।
___ उपर-प्रमाणे पांच श्लोको मधुरस्वरे बोली, चार जमणी बाजु अने चार डावी बाजु अने एक सम्मुख ऊभा रही नीचे प्रमाणे श्लोक-मंत्र बोलीने स्नात्र कर ।।