________________
कुम्भाः काञ्चनरत्नराजतमयाः स्त्रक्चन्दनैश्चर्चिताः, कर्पूरागरूगन्धबन्धुरतराः, क्षीरोदनीरोदयाः। भव्यैः स्नात्रकृते जिनस्य पुरतो, राजन्ति राजीकृताः, सार्वाः स्वीयशुभद्धिसङ्गममये, माङ्गल्यकुम्भा इव ।।२।। श्रेणीभूय समुत्थिताः करधृतैः, कुम्भैहृदग्रे मुदा, भव्या भान्ति जिनस्य मज्जनकृते, पौरन्दर श्रीजुषः। संसारौघमिवोत्तरीतुमनसो-ऽर्हदैवते मानस-,प्रासादे कलशाधिरोपमिव वा, ते कर्तुकामा इव ।। ३ ।। गीतातोद्यैरूनादैः सरभसममरारब्धनाट्यप्रबन्धे, नानातीर्थोदकुम्भै रजतमणिमयैः शातकुम्भर्जिनः प्राक् । मेरोःशृङ्गे यथेन्द्रैः सजयजयरवैर्मज्जितो जन्मकाले, कल्याणीभक्तयस्तं विधिवदिह तथा भाविनो मज्जयन्तु ।।४।। जैने स्नात्रविधौ विधूतकलुषे, विश्वत्रयीपावने, क्षुद्रोपद्रवविद्रवप्रणयिनां, ध्यातं त्वतिप्राणिनाम् । श्रीसचे सुजने जने जनपदे, धर्मक्रियाकर्मठे, देवाः श्रीजिनपक्षपोषपटवः, कुर्वन्तु शान्ति सदा ||५||
|| अथ क्षीर स्नात्रम् ।। (१) कलाशाकार श्रीसिद्ध-चक्र-, विहितावतारमर्हन्तम् । शिवशान्तिकृते भक्त्या, स्नपयामः क्षीररसकलशैः 36 ॐ ह्रीं श्रीं क्षीररसकलशेन श्रीसिद्धचक्रं स्नपयामि स्वाहा ।। ।। इति क्षीरस्नात्रम् ।।