________________
૪૨
विश्वत्रये च स्वकुले जिनेशो, व्याख्यायते श्रीकलशायमानः ।।
अतोऽत्र पूर्ण कलशं लिखित्वा, जिनार्चनाकर्म कृतार्थयामः ।।३।। ॐ ह्रीं श्रीपूर्णकलशाय स्वाहा श्रीपूलिशने सुमारली चन्दनं समर्पयामि स्वाहा शेष पूर्ववत्
जिनेन्द्रपादैः परिपूज्य पृष्ठै,-रतिप्रभावै-रतिसन्निकृष्टम् ।
भद्रासनं भद्रकरं जिनेन्द्र-, पुरो लिखेन्मंगल, सत्सयोगम् ।।४।। ॐ ह्रीं श्रीभद्रासनाय स्वाहा श्रीमद्रासनने ईसुमारली चन्दनं समर्पयामि स्वाहा शेष पूर्ववत्
त्वत्सेवकानां जिननाथ दिक्षु, सर्वासु सर्वे निधयः स्फुरन्ति ।
अतश्चतुर्धा नवकोणनन्द्या-, वर्तः सतां वर्तयतां सुखानि ||५|| ॐ ह्रीं श्रीनन्द्यावर्ताय स्वाहा श्रीनग्धावर्तने दुसुमारली चन्दनं समर्पयामि स्वाहा शेष पूर्ववत्
पुण्यं यशः समुदयः प्रभुता महत्त्वं, सौभाग्य-धी-विनय-शर्म-मनोरथाश्च ।
वर्धन्त एव जिननायक ते प्रसादा-तद्वर्धमान-युगसम्पुट-मादधामः ||६|| ॐ ह्रीं श्रीवर्धमान सम्पूटाय स्वाहा श्रीवर्धमान सम्पूटने दुसुमारली चन्दनं समर्पयामि स्वाहा शेष पूर्ववत्