________________
પરિપિંડિત ? પછી એક થાળમાં રાતું વસ્ત્ર, શ્રીફળ ૧, રૂા. ૧, સર્વ જાતનાં ફૂલો, ફળો અને ચોખા તથા પંચરત્નની પોટલી મીંઢળ નાડાછડી વગેરે લઈ ઉભા થઈ નીચે પ્રમાણે ગ્રહશાંતિસ્તોત્ર બોલવું :
अथ ग्रहशान्तिस्तोत्रम् जगद्गुरुं नमस्कृत्य, श्रुत्वा सद्गुरुभाषितम् । ग्रहशान्तिं प्रवक्ष्यामि, भव्यानां सुखहेतवे ।।१।। जिनेन्द्रैः खेचरा ज्ञेयाः पूजनीया विधिक्रमात् । पुष्पैर्विलेपर्नेधूपै-नैवेद्यैस्तुष्टिहेतवे ।।२।। पद्मप्रभस्य मार्तण्ड-श्चन्द्रश्चन्द्रप्रभस्य च । वासुपूज्यस्य भूपुत्रो, बुधस्याष्टौ जिनेश्वराः ||३|| विमलानन्तधर्मारा:. शान्तिः कन्थन मिस्तथा । वर्धमानस्तथैतेषां पादपद्मे बुधं न्यसेत् ||४|| ऋषभाजितसुपा -श्चाभिनन्दनशीतलौ । सुमतिः संभवस्वामी, श्रेयांसश्च बृहस्पतिः ।।५।। सुविधेः कथितः शुक्रः, सुव्रतस्य शनैश्चरः । नेमिनाथो भवेद्राहोः केतुः श्रीमल्लिपार्श्वयोः ।।६।। जन्मलग्ने च राशौ च, यदा पीडयन्ति खेचराः । तदा संपूजयेद् धीमान्, खेचरैः सहितान् जिनान् ।।७।। पुष्पगन्धादिर्भिधूपैः, फलनैवेद्यसंयुतैः । वर्णसदृशदानेश्च, वस्त्रैश्च दक्षिणान्वितैः ||८|| ॐ आदित्यसोममङ्गल-बुधगुरुशुक्राः शनैश्चरो राहुः। केतुसहिताः खेटा जिनपति पुरतोऽवतिष्ठतु ।।९।। २७ जिनानामग्रतः स्थित्वा, ग्रहाणां तुष्टिहेतवे । नमस्कारशतं भक्त्या, जपेदष्टोत्तरं शत्तम् ।।१०।। भद्रबाहुरुवाचैवं, पञ्चमः श्रुतकेवली । विद्याप्रवादतः पूर्वाद्, ग्रहशान्तिरुदीरिता ||११ ।।