SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ श्री विजयपद्मसूरिविरचितः १. ॥ श्री त्रिप्रभु स्तोत्रम् ॥ ॥ अनुष्टुब्वृत्तम् ॥ श्रीशान्तिनाथतीर्थेशं, नत्वा गुरुपदाम्बुजं । त्रिप्रभुस्तोत्रमाधास्ये, भद्राय स्वपरात्मनाम् ॥१॥ जय श्रीसिद्धचक्रेश ! विघ्नतापशमाम्बुद ! । मंगलादिदसन्नाम !, भवाब्धौ पोतसन्निभ ! ॥२॥ चित्रं पश्यत भो भव्याः !, पूजैकाऽपि करोति किम् । अस्य श्रीसिद्धचक्रस्य, चतुरर्थप्रसाधिका ॥३॥ दानशीलतपोभाव-भेदतोऽयं जिनोदितः । चतुर्विधोऽपि सद्धर्मों, साध्यतेऽर्चाविधायिना ॥४॥ दानं मोहपरित्यागो, न्यायद्रव्यव्ययादयम्। पुष्पादिकं प्रभोरङ्गे, ढौकते पूजनक्षणे ॥५॥ शोभनाचारिता शीलं, ब्रह्मचर्यात्मकं तथा । साधयेत्स प्रशान्तात्मा, पूजाकाले प्रमोदतः ॥६॥ तावन्नानाति भक्तोऽयं, कुरुते यावदर्चनाम् । साधना तपसो देशा-देवं दानादिसाधना ॥ ७ ॥ पूजोद्यतस्य भव्यस्य, भावनाऽप्युज्वला तदा । हेत्वधीनोऽनिशं भावो, जायते शास्त्रगीरिति ॥८॥ आयुषश्चञ्चलत्वेऽपि, सद्भाग्यं मेऽद्य हे प्रभो । पूजनावसरो येनाप्तो मयेत्युत्तमभावना ॥९॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy