________________
श्री स्तोत्र चिंतामणिः
भवाब्धियानपात्रसंनिभं प्रदीप्तिधारकं । विशिष्टपुण्यशालिनं मृगध्वजं गुणास्पदं ॥ विशालदेशनाप्रबोधितासुमत्कदंबकं । सदा स्मरामि चक्रिनाथविश्वसेननंदनम् ॥ ३ ॥
२७ ॥ श्री कुंथुनाथ चैत्यवन्दनम् ॥ ( दोधकवृत्तम् )
भव्यमनोकजभासनभानुं । श्रीजननीसुतमर्हदधीशं ॥
चंद्रमुखं दितदोषसमूहं | स्तौमि सदा प्रभुकुंथुजिनेशं ॥ १ ॥
घातिचतुष्टयकर्मविनाशा - । लब्धमहोदय केवलबोधं ॥ योगनिरोधसमाश्रितमुक्तिं । - स्तौमि सदा श्रीकुंथुजिनेशं ॥ २ ॥
भावकृपाम्बुसमुद्रशमीशं । सात्त्विक हर्षनिकेतनवक्त्रं ॥ योगिजनस्मृतिगोचरमाप्तं । स्तौमि सदा प्रभुकुंथुजिनेशं ॥ ३ ॥
१९३