________________
श्री जिनस्तोत्ररनकोश: ।
८९
मोहद्वेषि जयश्रिया स लभते श्रेयोऽचिराच्छाश्वतम् ॥२७॥ इति युगप्रधानावतारवृहत्तपागच्छाधिराज श्रीदेवसुन्दरसूरिश्रीज्ञानसागरसूरि श्रीसोमसुन्दरसूरिशिष्यैः श्रीमुनिसुन्दरसूरिभिर्विरचिते जयश्यते श्रीजिनस्तोत्ररत्नकोशे प्रथमप्रस्तावे श्रीशत्रुञ्जय मण्डन श्रीआदिनाथस्तवरूपं स्तोत्ररत्नं द्वितीयम् ।
॥ अर्हम् ॥
जयाश्रयं विश्वजितं स्मद्विषं पराभिभूयाजननादवाप यः ।
श्रीनेमिनं तं सुरराजपूजितं
जगत्प्रभुं रैवतदैवतं स्तुवे ॥ १ ॥
स्तुतिं विधातुं तव यां न शक्तो
नेमे सुरेन्द्रोऽप्यहकं कथं ताम् ।
तथापि तत्सम्भविसत्फलस्य
लिप्सैव मां प्रेरयतीह बालम् ॥ २ ॥ यस्मिन् बभूवुस्तव नाथ नेमे