________________
८६
श्रीमुनिसुन्दरसूरिविरचितः ।
॥ युग्मम् ॥
यस्मिन् युगादीशजिनं स्मरन्तः स्वः शर्म भेजुः पशवोऽपि हिंस्राः ।
मयूरनागप्रमुखा भजे तत्
स्वपापपिष्ट्यै विमलाद्रितीर्थम् ॥ १६ ॥
इमं गरीयांसमपि क्षितिघ्रं भव्याङ्गिः खे हृदये दधानाः ।
तरन्ति संसारमहोदधिं द्रा
गहो अचिन्त्यो महतां प्रभावः ॥ १७ ॥
जलधिर्न यथा दवाग्मिभि
र्न तमोभिश्च दिनेशमण्डलम् ।
विमलाद्विमुपागतो भवी
न तथा पापभरैः प्रलिप्यते ॥ १८ ॥
न भियो भवशत्रुसम्भवाः
खलु तस्य प्रभवन्ति भाविनः ।
विमलाचलमौलिमण्डनं