________________
श्रीजिनस्तोत्ररत्रकोशः ।
नैवामृतं प्रदददप्यजरामरत्वदाने क्षमोऽस्मि विभुरेष जिनस्त्विहापि । ध्यात्वेति यावत इवांहिगतोऽयमिन्दु
७७
स्तच्छक्तिमस्तु विधुलक्ष्माजिनः स भूत्यै ॥९॥
देवानामवधिः स्फुरद्गुणनिधिः शुष्यद्भवाम्भोनिधिदुष्कर्मारिधिर्जने हित विधिद्वेधा विमुक्तोपधिः । पातु श्रीसुविधिः सुरैर्वरविधिस्तुत्यप्रभावोदधिर्येनोद्यत्सुखधिक्रियाकृदवधिकोधः सयोघो युधि ॥ १० ॥
नराम्रा बिभ्रति भृङ्गभूयं यस्मिन् सदा योगिमनस्सरःस्थे ।
तनोत्वयं शीतलपादपद्मः
संसारतापप्रचयप्रणाशम् ॥ ११ ॥
श्रेयः श्रेणिमयं तनोतु भगवान् निश्रेयसश्रीप्रभुनिर्विश्रामसुरेश संस्तुतपदः श्रेयांसनामा जिनः । संपत्कम्पपराङ्मुखा त्रिजगतो विश्रामभूश्चेतसां
यन्नामस्मृतिमात्रतोऽपि भावनां पाणौ स्फुरत्यञ्जसा ॥१२॥