________________
॥ अर्हम् ॥ श्रीमुनिसुन्दरसूरिविरचितः श्रीजिनस्तोत्ररत्नकोशः ।
जयश्रियं ज्ञानतपस्क्रियायुधैरवाप्य दुर्वारतरान्तरद्विषाम् । पदं यदाऽऽपुः किल ये तदाप्तये जिनांश्चतुर्विंशतिमानुवामि तान् ॥ १ ॥ श्रीमानादिविभुः क्षमाघरकुले जातः सुवंशावलीवायो मौक्तिकसंपदेऽस्तु स सतां शाखाशतभ्राजितः । धर्मादिस्थितियष्टयो यदुदिताः स्फूर्जत्प्रभावाः सदाऽ भूवन् मोहजनार्दितस्य जगतोऽप्याधारभूताः पराः॥२॥ ईशानः पुरुषोत्तमो जिनपतिर्ब्रह्मेति मुक्यर्थिभिः कल्पदुर्मरुतां घटः सुरमणिश्चैवं धनाद्यर्थिभिः । बन्धुरस्त्राणमयं पिताऽथ जननी चैवं हिताद्यर्थिभिर्यो ध्यातस्तनुतात् सुखाकृतजगज्जन्तुः श्रियं सोऽजितः।३।