________________
७५ . पुदलसङ्ख्यास्तवनम् ।
पट्टाभिषेको विदधे सुरेन्द्रैः ... स गौतमो यच्छतु वाञ्छितं मे ॥ ८॥ श्रीगौतमस्याष्टकमादरेण प्रबोधकाले मुनिपुङ्गवा ये। पठन्ति ते सूरिपदं च देवानन्दं लभन्ते नितरां क्रमेण॥९॥
इति श्रीगौतमाष्टकं समाप्तम् ।
॥ अहम् ॥ श्रीवतिरागभगवंस्तवसमयालोकनं विनाऽभूवन् । द्रव्ये क्षेत्रे काले भावे मे पुद्गलावताः ॥ १ ॥ मोहप्ररोहरोहान्नट इव भवरङ्गसङ्गतः स्वामिन् । कालमनन्तानन्तं भ्रान्तः षट्कायकृतकायः॥ २॥ औदारिकवैक्रियतैजसभाषाप्राणचित्तकमतया । सर्वाणुपरिणतैम्म स्थूलोऽभूत्पुद्गलावर्त्तः ॥ ३ ॥ तत्सप्तकैककेन च समस्तपरमाणुपरिणतेर्यस्य । संसारे संसरतः सूक्ष्मो मे जिन तदावर्तः ॥ ४ ॥ निःशेषलोकदेशान् भवे भवे पूर्वसम्भवैर्मरणैः ।