________________
॥ अर्हम् ॥
श्रीगौतमाष्टकम् । श्रीइन्द्रभूतिं वसुभूतिपुत्रं ___ पृथ्वीभवं गौतमगोत्ररत्नम्। स्तुवन्ति देवासुरमानवेन्द्राः
स गौतमो यच्छतु वाञ्छितं मे ॥१॥ श्रीवर्डमानात् त्रिपदीमवाप्य
मुहर्त्तमात्रेण कृतानि येन। अङ्गानि पूर्वाणि चतुर्दशापि
स गौतमो यच्छतु वाच्छितं मे ॥२॥ श्रीवरिनाथेन पुरा प्रणीतं
मन्त्रं महानन्दसुखाय यस्य । ध्यायन्त्यमी सूरिवराः समग्राः
स गौतमो यच्छतु वाञ्छितं मे ॥३॥ यस्याभिधानं मुनयोऽपि सर्वे
गृह्णन्ति भिक्षाभ्रमणस्य काले।