SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ श्रीपार्श्वजिनाष्टकम् । रराजेत्यादि । हे मित्र त्वं पार्श्व फणेत्यादि प्राग्वत् । किं• सहारपूज्यं सह हारैर्वर्त्तन्ते सहाराः श्रीमन्तो देवनरदेवादयः तैः पूज्यं हे वृषभासभासभ वृषेण अनुडुहा भासते वृषभासो रुद्रः तद्वद्दीप्यते भा कान्तिर्यस्य हे वृषभासमासभ । आ अतिशयेन उत्तरार्द्धगतो यो भगवान् स नित्यं रराज किं० भगवान् पार्श्वः। अमारकृष्णः सुगमम् । सकलाकलाकलाम्। सकलः स प्रभावः, अकलो रागद्वेषादिकलामुक्तः, अकं दुःखं कुष्ठादिप्रभावं लान्तीति अकलाः तानामयति “अम द्रम हम्म गतौ” आत्मपार्श्व गमयति य अनन्तात् क्विप् सकलश्चासावकलश्चेत्यादिकर्म्मधारयः । किं विशिष्टः भगवान् अवृजिनो निष्पापः । पुनः किं विशिष्टः भगवान् जिनस्तीर्थकृत्, पुनः किं विशिष्टो - भगवान् जिनोः जिनं कृष्णमप्यवति रक्षति जिनोः शंखेश्वरसैन्यमरकं श्रीशङ्खश्वरपार्श्वस्त्रपनजलाभिषेकेन न्यषेधत् ततश्च जिनः कृष्णो जयः श्रीमान् पार्श्वे ररक्ष इत्यादि ॥ ८ ॥ १८
SR No.006112
Book TitleJain Stotra Sangraha Part 02
Original Sutra AuthorN/A
AuthorYashovijay Jain Pathshala
PublisherYashovijay Jain Pathshala
Publication Year
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy