________________
६६
श्रीपार्श्वजिनाष्टकम् ।
लक्षणा, तां हन्ति यः कालः तस्मिन्नपि रीयते प्रतिमल्लतया गच्छति यः मृत्युजेतृत्वात् सर्पवश्वासौ हरी हरी हरीति कर्म्मधारयः यो भगवान् पार्श्वः त्रिज्ञानसंज्ञानमयः उत्पत्तेरारभ्य त्रिज्ञानः पश्चात्संज्ञानमयः कोऽर्थः चरित्रे मनपर्यवज्ञानी पश्चात्तु केवलज्ञानी मयोमयो लक्ष्म्या मया उपलक्षितः पुनः किं० उमयः अवनं ऊः जीवरक्षा तन्मयः तं पार्श्वे फण ॥ ६ ॥
संरक्षतो दिग्भवनं वनं वनं विराजिता येषु दिवेदिवेदिवे ।
पादद्वये नूतसुरासुराऽऽसुराः
पार्श्व फणे रामगिरौ गिरौ गिरौ ॥७॥
1
संरक्षतोदिगित्यादि । पार्श्वे फणेत्यादि जातम् । नूतसुरासुराः कोऽर्थः नूता लोके स्तुताः प्रशम्या ये सुरा २ स्तथा आसुराः हिंसकाः क्रूराः महाराजादय अस्य पादइये विराजिताः शोभन्ते स्म यस्य किं कुर्वतः दिग्भवनं संरक्ष