________________
श्रीपार्वजिनाष्टकम् । आरामास्तेषु क्रामतीति अच् लिहादिभ्यश्च तथा हे मित्र त्वं पार्श्व गच्छन् क्रमंक्रमं फण गच्छ अयतनापरत्वेन यात्रा मा विधाः इर्यासमिते वयात्रात्वात् ॥४॥ यद्विश्वलोकैकगुरुं गुरुं गुरुं विराजिताये न वरं वरं वरम् । तमालनीलाङ्गभरं भरं भरं पार्श्व फणे रामगिरौ गिरौ गिरौ ॥५॥
यद्विश्वेत्यादि । यद्यस्मात्कारणात् विश्वलोकगुरुं तथाऽ समत्वादलघु गुरुं गुरुर्वको भवति स्वाम्यपि कर्मारीन् प्रति वक्रः ततो गुरुं अहं अये गच्छामि सेवे न वरं उत्तम वृंगट वरणे वृणोतीति मुक्तिश्रियं इति वरः तं अये भवदपेक्षया आचार्यत्वात् उत्तमोऽहं सेवे तस्मात्त्वं पार्थ फण गच्छ इति प्रस्तुते योज्यं हे विराजित लोकेषु तैस्तैगुणैः शोभित किं. पार्श्व तमालनीलाङ्गभरं, तथा भरं दशविधधर्मस्य पोषकं, अच् लिहादिभ्यः तथा भरं भरति भुवनं गुणैर्भरः, अच्प्रत्ययः ॥ ५॥