________________
॥ अहम् ॥
श्रीपार्श्वजिनाष्टकम् । लक्ष्मीर्महस्तुत्य सती सती सती
प्रटद्धकालोविरतो रतो रतो। जरारुजापन्महताहता हता पार्श्व फणे रामगिरौ गिरौ गिरौ ॥ १॥ लक्ष्मी इत्यादि। हे मित्र पार्श्व फण गच्छ । तत्र यात्रां कुरु, इ इति सम्बोधने । क रामगिरौ रामगिरिनामपर्वते कथंभूतस्त्वं गिरि उपलक्षितः उ इति निश्चये अव्ययानामसंख्यार्थत्वात् एतावति कृते किं स्यात् जरारुजा आपत् त्वया हता किं विशिष्टेन त्वया महता किं भूता जरा रुजा आपत् अहता पूर्व अविनाशिता किं विशिष्टस्त्वंप्रवृद्धकालः प्रवृद्धके सुखे आल उद्यमो यस्य सः पुनः किं विशिष्टः विविरतः सर्वविरतः अरतोरतः