________________
॥ अर्हम् ॥ शान्तमूर्त्तिश्रीवृद्धिचन्द्रसद्गुर्वष्टकं स्तुतिरूपम् ।
वाचं वाचं प्रभुगुणगणं लब्धकीर्त्तिर्जने यो - बोधं बोधं विषमविबुधं जातपूज्यप्रभावः । वेदं वेदं सकलसमयं प्राप्तशान्तस्वभावः स्वर्गस्थोऽसौ विलसति सुखं मद्गुरुर्वृद्धिचन्द्रः ॥ १ ॥ स्नायं स्नायं सुपवितवपुः सार्ववाचामृतेन
हाय हायं कुमतकपटं विश्ववन्द्यप्रतापः । घातं घातं सुभटपदवीं प्राप दुष्कर्मवृन्दं स्वर्गस्थोऽसौ विलसति सुखं मद्गुरुर्वृद्धिचन्द्रः॥२॥ पावं पावं मुनिजनपथं कृत्यकार्येषु लीनः
स्तावं स्तावं गुणिगुणगणं शुद्धसम्यक्त्वधारी । नावं नावं जिनवरवरं नीत पुण्यप्रकर्षः
स्वर्गस्थोऽसौ विलसति सुखं मद्गुरुर्वृद्धिचन्द्रः ॥ ३ ॥ दायं दायं स्वभयमतुलं प्राणिषु प्रीतिपुञ्ज धायं धायं सुमतिमहिलां क्लृप्तकल्याणपोतः । भायं भायं प्रवचनवचो वीरदेवाभिमानः स्वर्गस्थोऽसौ विलसति सुखं मद्गुरुर्वृद्धिचन्द्रः॥४॥