________________
श्रीसीमन्धरस्वामिस्तवनम् । १९ प्रत्यूषे त्वां नंनमन्नाकिनाथं __ क्षोणिख्यातं केवलश्रीसनाथम् । के के धन्या नैव मिथ्यात्वमार्थ
संसेवन्ते सन्ततं तीर्थनाथम् ॥ १६ ॥ इति सुधमधुरत्वोऽमन्दमानन्ददायी ___ सुरनरवरतिर्यक्सर्वभाषानुयायी। वसति मनसि नेतर्ध्वस्तमोहप्रमाद.
स्तव कृतसुकृतानां देशनाया निनादः ॥१७॥ अमरनरगणानां संशयान संहरन्ती
शिवपुरवरमार्ग देहिनां व्याहरन्ती । भवति शरणहेतुः कस्य नो नाथ वाणी
भवभवभयभाजस्तेऽघवल्लीकृपाणी ॥ १८ ॥ असुरसुरतिरश्चां यत्र वैरोपशान्तिः ___ स्फुरति हृदि वरिष्ठाऽऽनन्दचित्तप्रशान्तिः । समवसरणभूमिविश्वविश्वासभूमि
जगति जनशरण्या तेऽस्त्यघानामभूमिः ॥१९॥