________________
३२ . श्रीजिनस्तुतयः। क्षान्त्याढ्यः कष्टदुष्टक्षयकरणपरो रैवतोत्तंसतुल्यः कल्याणं पञ्चमी सत्तपसि वितनुतां पञ्चमज्ञानवान्वः॥१॥ नाभेय त्रैशलेय प्रथमचरमकश्चन्द्रवच्चारुचञ्चन्मूर्तिः स्फूर्ति दधानः प्रथयति कुमुदं यो बुधालादहेतुः । प्रोदामश्छद्मपद्मा पिकचकखरवः सत्कलावान्मनोज्ञोज्ञानं पुष्याज्जिनौषः स तपसि भविनां पञ्चमी वासरस्य ॥२॥ गीर्वाणाधीशपुंसांपतिकुसुममिदं पुण्यभाजोमनुष्या निर्वाणामेयसौख्यं प्रबलफलमथो यत्प्रसादाल्लभन्ते। श्रीसार्वप्रौढशुद्धागमधरणिरुहः सिद्धिदानैकरक्तस्तत्पञ्चम्यास्तपस्युद्यतविशदधियां भाविनामस्तु नित्यम्।३। संपूर्णा पूर्णिमेन्दुप्रभसुभगगुणैर्दत्तदेवेन्द्रनानाप्रोद्यद्गन्धदिपेन्द्रप्रचुरमदहरैणाधिपे राजमाना । श्रीअर्हक्तिभावा विमलकजकरा भाखदम्बाभिधाना पञ्चम्यह्नस्तपोथै वितरतु कुशलं धीमतां सावधाना॥४॥
इति ज्ञानपञ्चमीस्तुतयः।