________________
श्रीमहावीरजिनस्तवः |
दानावर्जितभविसारङ्गे निगदित नियतनिपुणसारङ्गम् ॥ १६ ॥
केलिकृते रक्षितसारङ्गे जनरञ्जनलोचनसारङ्गम् ।
लुश्चितभुजगसदृशसारङ्गं धर्मकथालापितसारङ्गम् ॥ १७ ॥
अङ्गरजोमृगमदसारङ्गं मोहरजनिबोधनसारङ्गम् ।
२४९
स्वरमाधुर्यमथितसार
वीरं भजत सुकृतसारङ्गम् ॥ १८ ॥ इत्थं वीरजिनः स्तुतो नवनवैः सारङ्गशब्दोद्भवैः सद्भावैः समयं गुणादिविजयेनानन्दरोमोद्गमम् । हर्षोत्कर्षवशेन पेशलतरैर्भावैः सुरैः संनतश्चित्तप्रीतिकरं परं पदमयं दद्यान् मुदा देहिनाम् ॥ १९ ॥ इति श्रीमहावीर जिनस्तवः ।