________________
श्रीजिनस्तोत्ररत्नकोशः।
२३७ बहुविधबहुकर्मजैः कुतर्कै__निहतिधियां कति नैव दैक्तानि।। निरुपधिसमताविचारिणां तु
त्वमसि विभो ऋषभैक एव देवः ॥ २५ ॥ एवं देलउलापुरे सुविदितं श्रीमद्युगादिप्रभु शकालीमुनिसुन्दरस्तवगणैर्नूतक्रमं यः स्तुते । सर्वाभीष्टसुखोच्चयैरविरतिस्फूर्जप्रमोदाइयो मोहद्वेषि जयश्रिया स लभते श्रेयोऽचिराच्छाश्वतम् ॥२६॥ इति युगप्रधानावतारवृहत्तपागच्छाधिराजश्रीदेवसुन्दरसूरि. श्रीज्ञानसागरसूरिश्रीसोममुन्दरसूरिशिष्यैः श्रीमुनि
मुन्दरसूरिभिर्विरचिते जयश्यके श्रीमिनस्तोत्ररत्रकोशे प्रथमप्रस्तावे देलउलाविभूषणश्रीऋषभजिनस्तवनरत्नं त्रयोविंशम् ।
ग्रन्थसंख्या १०६३)