________________
२०२
___श्रीमुनिसुन्दरसूरिविरचितः।
भवन्ति ये सिद्धरसास्तव स्तवै.
रिवौषधैर्भावितधातवः प्रभो । तेषां सदा शीलितयोगसम्पदां
स्फुरन्ति कल्याणसमृडयः पराः ॥ ३ ॥ प्लवङ्गवच्चित्तमिदं समन्ता
त्पारिप्लवं मे विषयेषु लुभ्यत् । गुणैर्निबद्धं स्तवयोजितैस्ते
स्थिरीभवत्साम्यजशर्मणेऽस्तु ॥ १ ॥ सर्वज्ञ देशान्तरितोऽपि पूजा___ स्तवादिभक्तीमम सम्प्रतीच्छ । भवन्ति नाभ्रान्तरितेऽपि भानौ
नृणां किमर्घाञ्जलयः कृतार्थाः ॥ १ ॥ विजयं जिन पुष्कलावती
विनुमः पूर्वविदेहभूषणम् । नगरीमपि पुण्डरीकिणीं
वमभूर्यत्र जगत्तपःफलम् ॥ ६ ॥