________________
२००
श्रीमुनिसुन्दरसूरिविरचितः ।
विच्युतः कुन्थुनाथोऽथ पक्षेऽर्जुने ॥२०॥ नयने २ सुमतिच्युतिः शरे ५ मेर्जन्म रसे६ऽस्य तु व्रतम् ।
भुजगे ८ वामेयनिर्वृती
राकायां समवातरन्मुनिः ॥ २१ ॥
श्यामे नभस्ये तुरगे ऽपवर्गचन्द्राभनेतुश्च्यवनं च शान्तेः ।
वसौ सुपार्श्वावतरोऽथ शुद्धे निधौ९ शिवं श्रीसुविधेच जज्ञे ॥ २२ ॥ दर्शे १५त्वाश्वयुजे शिवासुतमती राका १५ दिने श्रीनमेजज्ञे चाऽवतरो मयेति विनुताः कल्याणकैः श्रीजिनाः । कल्याणौघकराः प्रबोधमतुलं तत्त्वं त्वनन्तं स्फुरन्नित्यानन्दमयी यतो मम भवेदुद्यज्जयश्रीः परा ॥ २३ ॥ एवं सर्वजिनेश्वरांस्त्रिजगतीश्रेयोविलासप्रदान् शक्रालीमुनिसुन्दरस्तवगणैर्नूतक्रमान् यः स्तुते । सर्वाभीष्टसुखोच्चयैरविरतं स्फूर्जत्प्रमोदाइयो