________________
१९८ श्रीमुनिसुन्दरसूरिविरचितः ।
शुभ्रेऽथ कुन्थोरनले३ऽवबोधः ॥ १२ ॥ इषा५वनन्ताजितशम्भवेषु
सिद्धिर्निधौ९सा सुमतेश्व रुद्रे ११ । बोधोऽस्य विश्वे१३जननं च वीरे
'पद्मप्रभौ ज्ञानकरी च राका ॥ १३ ॥ राधेऽथ कृष्णे प्रतिपद्विमुक्त्यै __ कुन्थोदितीयाऽजनि शीतलस्य। सिन्यै शरे प्रव्रजनं च कुन्थोः
श्रीशीतलस्यावतरश्च तर्के६ ॥ १४ ॥ नमः शिवं दिश्यु१०दभूदनन्तो
यक्षे१३मनौ१४चास्य चरित्रबोधौ । जनिश्च कुन्थोर्विशदेऽभिनन्दो
वेदे४च्युतोऽश्वेऽवततार धर्मः ॥१५॥ फणभृत्य-भिनन्दनिर्वृतिः
सुमतेजन्म च तत्तपोनिधौ९। दिशि१०वीरमती रवौ१२ च्युति