________________
भीमुनिसुन्दरसूरिविरचितः।
विलोकते देव तवागमाञ्जना
निसर्गचिद्दर्शनलोचनोपगम् । अनाद्यविद्यातिमिरं निरस्य यः
स एव किञ्चित्तव रूपमीक्षते ॥ २३ ॥ समः प्रभोऽर्थः खलु देशतोऽपि ते
विचेतनो नो न परोऽपि मोहयुक् । सचेतनो मोहविवर्जितश्च यः
स तु त्वमेवेत्युपमां न गाहसे ॥२४॥ कथं स मेयो महिमा तव प्रभो
विहारकल्याणकपञ्चकादिभिः । यतस्त्वदाप्ता वनोपकारितां
द्रव्यादयोऽर्था दधते परेऽप्यहो ॥२५॥ तनोषि तत्सप्तसु नाथ रज्जुषु
स्थितोऽपि चेज्जन्मनि नारकाङ्गिनाम् । हृदि स्थितस्तत्कृतिनां सुखाद्वयं
यदव्ययं त्वं ददसे किमद्भुतम् । २६ ॥