________________
श्रीजिनस्तोत्ररत्नकोशः। १८३ न दृष्टिरागी भजते वदागमं ___न वेत्ति तत्त्वं भवतश्च तं विना । न दृष्टिरागं च जहाति तज्जडो • हताः कुतीर्थ्या न्विति चक्रकेण ही ॥१३॥ एकैकधर्मावधिबुद्धयः परे
कथं लभन्तेऽर्थमनन्तधर्मकम् । एकैककूपोदरदर्शिनः, पति
सरस्वतीनामिव दर्दुराभकाः ॥ १४ ॥ अतो भवानेव समस्तदृग् जगौ
खरूपमस्यावितथं तथा विदन् । परो मरालाल्लभते हि वैधसा
न वै जगत्सर्वजलाश्रयात्मकम् ॥१५॥ खरूपबोधेऽप्यविदग्धबुद्धय
स्त्वदीरिते वस्तुनि तीथिका मुधा। गृणन्ति दोषान् खलु काचकामलो
पलिप्तनेत्रा इव शुद्धनाटके ॥ १६ ॥