________________
३
१२४ श्रीमुनिमुन्दरसूरिविरचितः । पद्मावतीयुक् त्वदुपास्तिलालसो
व्यनक्ति संप्रत्यपि तत्कृतज्ञताम् । तवोग्रभक्तिं च स भक्तपालनात्
फलानुमेया हि निदानशुद्धयः ॥ २३ ॥ भयानि रोगोरगवह्निविद्विषां
सदुर्जनानां प्रभवन्ति तेषु न । स्तुतिस्त्वदीया किल यैर्विधीयते
वृत्तिर्बुधैः खस्य जिनेश पालनी ॥ २४॥ अकृत्रिमा बडगुणा स्तुतिस्तवा
नुभूयमाना खदतेऽधिकाधिकम् । न चय॑माणा भजतेऽधिकाधिक
किमिक्षुयष्टिः प्रसरद्रसात्मताम् ॥ २५ ॥ कृता परेषां तु विकल्पितैर्गुणै
विचार्यमाणा विशरारुरेव सा। किमन्तरन्तः कदली प्रदर्शयेत्
समीक्ष्यमाणा न निजामसारताम् ॥२६॥