________________
श्रीजिनस्तोत्ररत्नकोशः। १०७ द्वाह्याद्बलीयान् विधिरन्तरङ्गः ॥ १० ॥ बीरात्रिनन्दाङ्कशरद्य ९९३ चीकरत्
खच्चैत्यपूते ध्रुवसेनभूपतिः। यस्मिन् महैः संसदि कल्पवाचना
माद्यां तदानन्दपुरं न कः स्तुते ॥११॥ स्तुवेऽनुकम्पां तव सर्वगोचरां
प्रसूतिहेतुं सकलेष्टशर्मणाम् । सर्वार्थसिद्धिं खयमास्थितोऽपि सन्
ययात्र विश्वोपचिकीरवातरः । १२॥ सनाभिरिन्द्रस्य सनाभिभूपतिः
कथं भवेद् यत्प्रभवस्य तेऽर्हतः। विडौजसः सर्वसुरासुरान्विता
दधुश्चतुष्पष्टिरपीश दासताम् ॥ १३ ॥ अदीपयस्तास्त्रिजगत्प्रकाशिनी
विभो युगादाविह वाणिदीपिकाः । असङ्ख्यकालप्रचितं तमोऽ--