________________
।११२॥
ॐ पुत्रमित्रभ्रातृकलत्रसुहृद्स्वजनसम्बन्धिबन्धुवर्ग सहिताः नित्यं चामोदप्रमोदकारिणः
अस्मिंश्च भूमंडल आयतन - निवासी साधुसाध्वीश्रावकश्राविकाणां रोगोपसर्गव्याधिदुःखदुर्भिक्षदौर्मनस्योपशमनाय शान्तिर्भवतु ॥१०॥
ॐ तुष्टि पुष्टि ऋद्धि वृद्धि माङ्गल्योत्सवाः सदा प्रादुर्भूतानि पापानि शाम्यन्तु दुरितानि, शत्रवः पराङ् मुखा भवन्तु स्वाहा ॥११॥
श्रीमते शान्तिनाथाय, नमः शान्तिविधायिने । त्रैलोक्यस्यामराधीश, मुकुटाभ्यर्चिताङ्मये ॥१२॥ शान्तिः शान्तिकरः श्रीमान्, शान्ति दिशतु मे गुरुः । शान्तिरेव सदा तेषां, येषां शान्तिर्गृहे गृहे ॥१३॥ उन्मृष्ट -शिष्ट-दुष्ट-ग्रहगति-दुःस्वप्न-दुनिमित्तादि- सम्पादितहितसम्पन्नामग्रहणं जयति शान्तेः ॥१४॥ श्री संघजगज्जनपद-राजाधिपराजसन्निवेशानां-गोष्ठिक-पुर-मुख्याणां, व्याहरणैाहरेच्छान्तिम् ॥१५॥ श्री श्रमणसंघस्य शान्तिर्भवतु, श्री जनपदानां शान्तिर्भवत, श्री राजाधिपानां शान्तिर्भवतु, श्री राजसन्निवेशानां शान्तिर्भवतु, श्री गोष्ठिकानां शान्तिर्भवतु, श्री पौरमुख्याणां शान्तिर्भवतु, श्री पौरजनस्य शान्तिर्भवतु, श्री ब्रह्मलोकस्य शान्तिर्भवतु, ॐ स्वाहा ॐ स्वाहा ॐ श्री पार्श्वनाथाय स्वाहा ॥१६॥
॥११२ ॥