________________
॥११॥
॥ बृहच्छान्ति स्तोत्र ॥
29
भो भो भव्याः ! शृणुत वचनं प्रस्तुतं सर्वमेतद्, ये यात्रायां त्रिभुवनगुरोराऽऽर्हता भक्तिभाजः । तेषां शान्तिर्भवत भवतामझ्दादिप्रभावा दारोग्यश्रीधृतिमतिकरी कलेशविध्वंसहेतुः ॥१॥ भो भो भव्यलोका ! इह हि भस्तैरावतविदेह - सम्भवानां समस्त तीर्थकृतां जन्मन्यासन - प्रकम्पानन्तरमवधिना विज्ञाय, सौधर्माधिपतिः सुघोषाघंटा चालनानन्तरं सकलसुरासुरेन्दैः सह समागत्य सविनयमहद्भट्टारकं गृहीत्वा गत्वा कनकाद्रिशृङ्गे, विहितजन्माभिषेकः शान्तिमुद्घोषयति यथा ततोऽहं कृतानुकारमिति कृत्वा, महाजनो येन गतः स पन्थाः इति भव्यजनैः सहसमेत्य, स्नात्रपीठे स्नात्रं विधाय शान्तिमुद्घोषयामि, तत्पूजा-यात्रा-स्नात्रादि- महोत्सवानन्तरमिति कृत्वा कर्णं दत्त्वा निशम्यतां निशम्यतां स्वाहा ॥२॥ ॐ पुण्याहं पुण्याहं प्रीयन्तां प्रीयन्तां भगवन्तोऽर्हन्तः सर्वज्ञाः सर्वदर्शिन स्त्रिलोकनाथा - स्त्रिलोकमहिता - स्त्रिलोकपूज्या - स्त्रिलोकेश्वरा - स्त्रिलोकोद्योतकराः ॥३॥
2 296
॥११०॥