________________
वायुवशावल्लीशाखागृहन्यमानस्य दुन्दुमे। शब्दमशृणोत् । अथ क्षुमितहृदयश्चिन्तयामाल। अहो विनष्टोऽस्मि । तद्यावन्नास्य प्रोधारितशब्दस्य दृष्टिगोचरे गच्छामि तावद वजामि । अथवा नैताज्यते सहसैव पितपैतामहं धनं त्यक्तुम् । तावजानामि कस्यायं शब्दः। धैर्यमालम्ब्य विमर्शयन्यावन्मन्दं मन्दं गच्छति तावदुंदुभिमपश्यत् । स च तस्य समीपं गत्वा स्वयमेव कौतुकादताडयद । भूयश्च हर्षादचिन्तयत् । अहो, चिरादेतदस्माकं महद्भोजनमापतितम् । तन्नूनं मांसेन परिपूरितं भविष्यति । ततः परुषचर्मावगुण्ठितं तत्कथमपि विदाकदेशे छिद्रं कृत्वा . संहष्टमना मध्ये प्रविष्टः। परं चर्मविदारतो
दंष्ट्रामङ्गः सञ्जातः। ( २ ) दशरथं समनुज्ञाप्य धर्मशः सह सीतया। १०
राघवः शोकसंमूढो जननीमभ्यषादयत् ॥ अन्वक्ष लक्ष्मणो भ्रातुः कौसल्यामभ्यवादयत्। अपि मातुः सुमित्राया जग्राह चरणौ पुनः॥ तं वन्दमानं रुदती माता सौमित्रिमब्रवीत् । हितकामा महाबाहुं मू[पघ्राय लक्ष्मणम् ॥ सृष्टस्त्वं वनवासाय स्वनुरक्तः सुहजने । रामे प्रमादं मा कार्षीः पुत्र भ्रातरि गच्छति । रामं दशरथं विद्धि मा विद्धि जनकात्मजाम् । अयोध्यामटधीं विद्धि गच्छ तात यथासुखम्॥