SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १५ श्रीमविजय कवि रचिते विजयप्रशस्तिमहाकाव्ये श्री हीरविजयसूरि संदर्भ: ॥ चतुर्थः सर्गः ॥ अथ धात्रीलताधात्रीरुहः स्फारफलप्रदः 1 गूर्जरत्राभिघो देश: क्रीडाक्रीड इव श्रियः ॥ १॥ यं विमानगृहं कल्पद्रुमं निर्जरमानवम् । दृष्ट्वा त्रिविष्टपं द्रष्टुं न स्यादुत्कण्ठितं मनः ॥ २॥ यत्र धर्मार्थकामानां संगमः पुंसु दृश्यते । श्रेयोलक्ष्मीकलाकेलियुतास्ते यदहर्निशम् ॥ ३॥ श्रीकण्ठश्रीपतिश्रीदान् यज्जनान् विदधे विधिः । यदीश्वरतमोध्वंसिधनदत्वयुत्वा अमी ॥ ४॥ द्रुमाः कल्पद्रुमा यत्र धेनवः कामधेनवः । मानवाश्च सुपर्वाणो देवदेशस्तदस्ति यः ॥ ५॥ प्रतिद्रङ्गं प्रतिग्रामं प्रत्योकः प्रतिपाटकम् । आर्हत्यो मूर्त्तयो यत्र तेन पुण्यमयोऽस्ति यः ॥ ६॥ जगज्जनानन्दिसुवर्पभरभासुरम् नित्यं प्रह्लादनपुरं तंत्र पुरन्दरपुरोपमम् ॥ ७॥ नित्यं वैश्रमणोल्लासं नित्यं पुण्यजनप्रियम् । सदारम्भं सदासारं यदभादलकासदृग् ॥ ८॥ दृष्ट्वेत्यूचुर्जनान् यत्र यथाकामं प्रयच्छतः I किं पञ्चत्वमिता देवद्रुमा अस्मिन्नवातरन् ॥ ९॥ १३५
SR No.005849
Book TitleHir Swadhyaya Part 02
Original Sutra AuthorN/A
AuthorMahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy