________________
૫૬
[ જૈન દૃષ્ટિએ તિથિદિન અને પૌરાધન–સંગ્રહવિભાગ यति ? तादृशार्थकथनस्य को वाऽवसरः ? इत्यादिकन्तु स एव जानाति ।
किञ्च पूर्णिमायाः पाते तस्याश्चतुर्दश्यां चतुर्दश्याश्च त्रयोदश्यामाराधनायाः श्रीसागरानन्दस्रिकथनानुसारेण स्वीकारे प्राप्तसूर्योदयायास्तिथेस्सूर्योदयदिन पव जैनशास्त्रीयाया आराधनाऽऽज्ञायाः भङ्गः, तादृशतिथेः सूर्योदयमवगणय्य आराधनेऽनवस्था पूर्वापरदिनयोरव्यवस्थारूपा, औदयिकचतुर्दश्यास्तदनौदयिकीत्वदिने जैनशास्त्रानादिष्टस्य तदाराधनस्य जैनशास्त्रादिष्टत्वमतेर्मिथ्यात्वम् तादृशतिथेः शास्त्रोक्ते - तदाराधनादिनेऽनाराधनेन तद्विराधनेति चत्वारो दोषाः “ उदयं मि जा तिही, सा पमाणमिअरीइ कीरमाणीए । आणाभंगणवत्था मिच्छत्तविराहणं पावे " इति शास्त्रानुसारेण प्रसभमापतन्तो न कथमपि वारयितुं शक्यन्ते ।
,
“ क्षये पूर्वा तिथिः कार्या ” इत्यादिशास्त्रेण “ उदयं मि जा तिही " इत्यादिशास्त्रस्यापोदिततया नोक्तदोषावसर इति श्रीसागरानन्दस्ररिसम्भावना निराधारैव, " क्षये पूर्वा " इत्यादिशात्रस्य क्षीणतिथ्यादीनामाराधनाव्यवस्थापकस्याक्षीणतिथ्यादिविषये ताटस्थ्यात् अक्षीणतिथ्यादिविषये “ उदयं मिजा तिही " इत्यादिशास्त्रस्य निरङ्कुशादेशत्वात् ।
न च " क्षये पूर्वा " इत्यादिवचसा क्षीणतिथेरौदयिकीत्वव्यवस्थापने द्वयोश्च तिथ्योरेकत्र दिने औदयिकीत्वासम्भवेन पूर्णिमाक्षयदिने पञ्चाङ्गानुसारेण औदयिक्या अपि चतुर्दश्याः क्षीणत्वस्य प्राप्तत्वेन तद्दिवसेऽपि " क्षये पूर्वा " इत्यादेस्तत्राप्रवृत्त्या नैवोक्तदोषाः प्राप्तपदाः भवितुमीशते इति वाच्यम्, पञ्चाङ्गे औदयिकीत्वेन निर्दिष्टतिथीनामाराधनायाः स्वत उपपन्नतया कथन्ताऽऽकाङ्क्षायासाभावात् तत्रानोदयिकीत्वेनोक्तानां तिथीनामेवाराधनायाः कथन्ताऽऽकाङ्क्षाक वलितत्वेन तदाराधनोपपादकताया एवोक्तवचसो न्याय्यतया औदयिकतिथीनां तन्मुख्यकाले आराधनासंरक्षणेन सहैव तस्यानौदयिकतिथ्याराधनाव्यवस्थापकतायाः स्वीकर्तुमुचितत्वात् । न चैतदसम्भवीति शङ्कनीयम्, अक्षीणवृद्धतिथीनामौदयिकीत्वस्येव क्षीणवृद्धतिथीनां समाप्तत्वस्याराधनीयतायां प्रयोजकत्वप्रतिपादनपरतायाः स्वीकारेणाक्षीणतिथ्यादीनां तन्मुख्यकाले आराधनारक्षणस्य क्षीणतिध्यादीनामाराधनाव्यवस्थापनस्य चोभयस्यैव सम्भवात् ।
"
न च अक्षीणावृद्धतिथीनामाराधनीयताप्रयोजकत्वस्यौदयिकीत्वे क्षीणवृद्धतिथीनाञ्चाराधनीयताप्रयोजकत्वस्य समाप्तत्वे स्वीकारे गौरवात् तदपेक्षया लाघवेन सर्वपर्वतिथीनामाराधनीयताप्रयोजकत्वस्यौदयिकीत्व एव स्वीकार्यतौचित्यात् क्षीणतिथीनामाराधनार्हतासम्पत्तये तासामौदयिकीकरणस्यावश्यकतया तदनुरोधेन तत्पूर्वापर्वतिथेः क्षयाभ्युपगम एव गरीयानित्यु गिरणीयम्, औदयिकत्वस्य सूर्योदयस्पर्शलक्षणस्य सर्वपर्वतिथ्यसाधारणतया तस्य सर्वतदाराधनीयताप्रयोजकत्वासम्भवात् वस्तुतोऽनौदयिक्याः शास्त्रसहस्त्रेणापि औदयिकीकरणासम्भवात् वस्तुस्थित्यनुरोधेन प्रयोजककल्पनायां लाघवलोभ संवरणस्यैव युक्तत्वात् । तस्य सर्वथाऽशक्यत्वे तु सर्वपर्वतिथिसाधारणतया समाप्तत्वस्यैव सर्वतदाराध्यताप्रयोजकत्वकल्पनस्य कमनीयत्वात् । तत्त्वतरङ्गिणीकारेण " जं जा जं मि हु दिवसे समप्पई सा पमाणंति ” इति सप्तदशगाथोत्तरार्धेन अथ तिथीनां वृद्धौ हानौ च का तिथिः स्वीकार्येत्यत्रोभयोः साधारणं लक्षणम्त्तरार्धेनाह' जं जा जं मि' त्ति यद् - यस्माद् या तिथिर्यस्मिन् आदित्यादिवारलक्षणदिवसे समाप्यते स एव दिवसो वारलक्षणः प्रमाणमिति तत्तिथित्वेनैव स्वीकार्यः, अत्र हु एवकारार्थे ज्ञातव्य इत्यर्थः । अत एव ' क्षये पूर्वा तिथिग्रह्या' तस्मिन्नेव दिवसे द्वयोरपि समाप्तत्वात् " इति तद्व्याख्यानात्मकग्रन्थेन च तथैव सूचनात् ।
66
न च समाप्तत्वस्य सर्वपर्वतिथ्याराध्यताप्रयोजकत्वस्वीकारे सूर्योदयलक्षणौदयिकीत्वस्य तत्त्वबोधकानां " तिथिश्च प्रातः प्रत्याख्यानवेलायाम्
Jain Education International
33
" चाउम्मासिताओ तिहिओ
For Personal & Private Use Only
www.jainelibrary.org