________________
पर्वतोऽयं पुण्यराशिः, पृथिव्यास्तिलकोपमः ।
श्रीसर्वज्ञक्रमैः पूतो भाति त्रलोक्यभूषणम् ।। २७ ।। उत्तम: सर्वतीर्थानां सर्वतीर्थफलप्रदः ।
दर्शनस्पर्शनेनापि दुरितं हन्ति सर्वत: ।। २८ ।। सजल: सफलो भद्रशालादिवनवेष्टितः ।
क्रीडाशैल: सुरेशानां रम्यो रैवतपर्वत: ।। २९ ।। तावत्सर्वाणि पापानि तावद् दु:खान्यनेकशः ।
तावत् संसारवासोऽत्र न यावद् रैवते गमः ।। ३० ।। न्यायोपात्तं धनं येऽत्र कुर्वते पात्रसान्निजम् ।
तेषां समृद्धय: सर्वा: सम्पद्यन्ते भवे भवे ।। ३१ ।। शीलमेकाहमत्रस्थो बिभतिं भविनां वरः ।
सुरासुरनृनारीभि: सेव्यते स सदा यत: ॥ ३२ ॥ प्रत्याख्यानं दशविधं विवेकी कुरुते नरः ।
अस्मिन तस्य क्रमात् स्वर्गसौख्यानि दशधा पुन: ॥ ३३ ॥ चतुर्थषष्ठाष्टमादि तपो यत्र वितन्वते। __ ते नूनं सर्वशर्माणि भुक्त्वा यान्ति परं पदम् ।। ३४।। भावत: प्रतिमामत्र जिनानां जन्तुरर्चयन् ।
लभते शिवसौख्यानि नृसौख्यस्य किमुच्यते ।। ३५ ।। शुद्धान्नवस्त्रपानाद्यैः सुसाधु प्रतिलम्भयन्।
मुक्तिनारीहृदानन्ददायी भवति भावत: ।। ३६ ।। स्वर्णरूप्यान्नवस्त्रादि यद्ददात्यत्र भावत: ।
तदनन्तगुणं सोऽपि लभते लीलया जनः ।। ३७ ।। महातीर्थमिदं सर्वतीर्थोत्कृष्टं जगत्त्रये।
तिर्यञ्चोऽपि हि यद्वासात् सिध्यन्त्यन्तर्भवाष्टकम् ॥ ३८ ॥
रनार: ग्रंथोनी गोभी
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org