SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ द्वाविंशस्यावसर्पिण्यां, भाविनो नेमिनोऽर्हतः । गणभृत्पदमासाद्य, भवान्निर्वृत्तिमेष्यति ।।५७६ ।। वज्ररत्नमयी तेन, मूर्तिर्निर्माय निर्मला । स्वस्थाने भक्तितोऽभ्यर्चि, ततोऽनेकमहोत्सवैः ।। ५७७ ।। स्वायुषः समये प्रान्ते, गिरिनारगिरेरधः, मंदिरं काञ्चनं दिव्यं, विधायामरशक्तितः ।। ५७८ ।। तां मूर्त्तिं स्थापयामास, बिम्बैरन्यैः समं तु सः । पूज्यते च सदा देवैः, सा तत्रस्थाधुनापि हि ॥ ५७९ ।। महातीर्थमिदं तेन, सर्वपापाहरं स्मृतम् । शत्रुञ्जयगिरेरस्य, वन्दने सदृशं फलम् ।।५८० । विधिनास्य सुतीर्थस्य, सिद्धान्तोक्तेन भावतः । एकशोऽपि कृता यात्रा, दत्ते मुक्तिं भवान्तरात् ॥५८१ ।। अन्यत्रापि स्थित: प्राणी, ध्यायन्नेनं गिरीश्वरम् । आगामिनि भवे भावी, चतुर्थे किल केवली ॥५८२ ।। श्रुत्वेति भरताधीशः, स्वर्गाधीशगिरा तदा। यात्रायै प्राचलत्सङ्घसहितो रैवतं प्रति ।।५८३ ।। ज्ञात्वा भविष्यतो नेमेर्भावि कल्याणकत्रयम् । तत्राकारयदुत्तुङ्गं, प्रासादं काञ्चनस्य सः ।।५८४ ।। एकादशभिरुतुङ्गैर्मण्डपैः शुशुभेऽधिकम् । चतुर्दिशं चतुर्द्वार:, स नाम्ना सुरसुन्दरः ||५८५ ।। नीलरत्नमयी तस्मिन्, शुशुभे शुभशंसिनी । मूर्त्तिर्नेमिविर्भोर्भव्यपुण्यराशिरिवाङ्गवान् ।।५८६ ।। स्नात्वा हस्तिपदे कुण्डे, चक्री शक्रसमन्वित:, गिरनार : ग्रंथोनी गोमां Jain Education International For Personal & Private Use Only ८७ www.jainelibrary.org
SR No.005399
Book TitleGirnar Granthoni Godma
Original Sutra AuthorN/A
AuthorHemvallabhvijay
PublisherGirnar Mahatirth Vikas Samiti Junagadh
Publication Year
Total Pages118
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy