________________
पादांगुलिनमि रक्षेच्छ्रीनेमिश्चरणद्वयम् । श्रीपार्श्वनाथः सर्वांगं, वर्धमानश्चिदात्मकम्
॥१७॥ पृथिवी-जल-तेजस्क-वाय्वाकाशमयं जगत् । रक्षेदशेषपापेभ्यो, वीतरागो निरंजन:
॥१८॥ राजद्वारे श्मशाने च, संग्रामे शत्रुसंकटे । व्याघ्र-चौराग्नि-सर्पादि, भूतः-प्रेत-भयाऽऽश्रिते
॥१९॥ अकाले मरणे प्राप्ते, दारिद्यापत्समाश्रिते । अपुत्रत्वे महादुःखे, मूर्खत्वे रोगपीडिते
॥२०॥ डाकिनी-शाकिनीग्रस्ते, महाग्रहगणादिते । नद्युतारेऽध्ववैषम्ये, व्यसने चापदि स्मरेत्
॥२१॥ प्रातरेव समुत्थाय, यः स्मरेज्जिनपंजरम् । तस्य किञ्चिद् भयं नास्ति, लभते सुखसम्पदः
॥२२॥ जिनपंजरनामेदं, यः स्मरेदनुवासरम् । कमलप्रभराजेन्द्रश्रियं स लभते नरः
॥२३॥ प्रातः समुत्थाय पठेत्कृतज्ञो, यः स्तोत्रमेतज्जिनपञ्जराख्यम् । आसादयेत्स कमलप्रभाख्याम्, लक्ष्मी मनोवाञ्छितपूरणाय ॥२४॥ श्रीरुद्रपल्लीयवरेण्यगच्छे, देवप्रभाचार्यपदाब्जहंसः । वादीन्द्रचूडामणिरेष जैनो, जीयाद् गुरुश्रीकमलप्रभाख्यः ॥२५॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org