________________
२१२६
• असंवेद्यसुखानङ्गीकारः • द्वात्रिंशिका-३१/१७ वेदान्तिनस्त्वविद्यायां निवृत्तायां विविक्तता । सेत्याहुः सापि नो तेषामसाध्यत्वादवस्थितेः ।।१७।। पर्यायार्थाऽऽदेशपेशलमतिप्रपञ्चितस्य साम्राज्याऽऽपत्तेः । द्रव्यार्थाऽऽदेशे तु साधनन्तं सुखं तादृशी तदभिव्यक्तिश्चेत्युभयमपि मुक्तौ प्रामाणिकम् (अ.स.ता.वि. १।६।पृ.११३) इति व्यक्तमुक्तमेतद्ग्रन्थकृता अष्टसहस्रीतात्पर्यविवरणे ।
एतेन → दुःखात्यन्तसमुच्छेदे सति प्रागात्मवर्तिनः । सुखस्य मनसा भुक्तिर्मुक्तिरुक्ता कुमारिलैः ।। - (कु. ) इति कुमारिलमतमपि निरस्तम्, मुक्तौ मनोयोगविरहेण सुखभुक्त्ययोगाच्च । तदुक्तं कठोपनिषदि → आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः - (कठो.१।३।४) इति दिक् ।
नैयायिकमुखेन तौतातितमतनिराकरणं न्यायालोके इत्थं दृश्यते → नित्यनिरतिशयसुखाऽभिव्यक्तिः = मुक्तिः' इति तौतातिताः। तन्नेति नैयायिकादयः, नित्यसुखे प्रमाणाऽभावात् । न च 'नित्यं विज्ञानमानन्दं ब्रह्म' (बृहदारण्यकोपनिषद् ३/९/२८) इति श्रुतिरेव तत्र प्रमाणम्, न च नित्यसुखे सिद्धे ब्रह्माऽभेदबोधनं तद्बोधने च नित्यसुखसिद्धिरिति परस्पराश्रय इति वाच्यम्, स्वर्गत्वमुपलक्षणीकृत्य स्वर्गविशेषे यागकारणताबोधवत् सुखत्वमुपलक्षणीकृत्य सुखविशेषे ब्रह्माऽभेदोपपत्तेः, यद्वा नित्यं सुखं बोधयित्वा तत्र ब्रह्माऽभेदोऽपि विधिनैव बोध्यते, न च वाक्यभेदो वाक्यैकवाक्यत्वात्, न चानन्दमित्यत्र नपुंसकलिङ्गत्वानुपपत्तिः, छान्दसत्वात्, न च 'आनन्दं ब्रह्मणो रूपं तच्च मोक्षे प्रतिष्ठितं' (स्कन्दमहापुराण ४/५८/११४) इति भेदपरषष्ठ्यनुपपत्तिः, ‘राहोः शिर' इतिवद् अभेदेऽपि षष्ठीदर्शनादिति वाच्यम्, आत्मनोऽनुभूयमानत्वेन नित्यसुखस्याऽप्यनुभवप्रसङ्गात्, सुखमात्रस्य स्वगोचरसाक्षात्कारजनकत्वनियमात् । न चात्माऽभिन्नतया सुखमनुभूयत एव, सुखत्वं तु तत्र नाऽनुभूयते, देहात्माऽभेदभ्रमवासनादोषात्, आत्यन्तिकदुःखोच्छेदरूपव्यञ्जकाऽभावाद् वा । यत्तु सुखानुभवसामग्र्या एव सुखत्वानुभवसामग्रीत्वमिति नोक्तोपपत्तिरिति, तन्न, सुखविशेष्यक-दुःखाऽभावत्वादिप्रकारकभ्रमदशायां सुखत्वाऽननुभवादिति वाच्यम्, आत्म-सुखयोरभेदे सुखत्वस्याऽऽत्मत्वतुल्यव्यक्तिकत्वेनाऽऽत्मत्वाऽन्यजातित्वाऽसिद्धेः । किञ्च, दुःखमप्येवं सुखं स्यात्, ‘सर्वं खल्विदं ब्रह्म' (निरालम्बनोपनिषद् पृ.२, त्रिपाद्विभूतिमहानारायणोपनिषद् १/४) इति श्रुत्या आनन्दमयब्रह्माऽभेदबोधनात्, सुखत्वेनाऽननुभवस्य चोक्तरीत्योपपत्तेः । 'सिद्धार्थत्वेन नेयं श्रुतिः स्वार्थे प्रमाणमिति चेत् ? प्रकृतेऽपि तुल्यम् । किञ्च, सुखत्वाऽनुभवसामान्ये न मिथ्याज्ञानवासना दोषः, अनित्यसुखेऽपि सुखत्वाऽननुभवप्रसङ्गात्, किन्तु नित्यसुखत्वानुभवे आत्मनि सुखत्वानुभवे चेति गौरवम् । तस्मात् ‘आनन्दं ब्रह्म' (तैत्तिरीयोपनिषद्-३/६, महोपनिषद्-२/९, अक्ष्युपनिषद्-५०, हयग्रीवोपनिषद्२/१, शिवगीता-६/४९, संन्यासगीता-६/९३) इति मत्वर्थीयाऽच्प्रत्ययान्तेनानन्दवत्त्वं बोध्यते, न तु तदभेदः - (न्याया.प्र.१/पृ.२२-२७) इति । एतत्प्रघट्टकः तत्त्वचिन्तामणी अनुमानखण्डे मुक्तिवादे (पृ.१८१) वर्तत इत्यवधेयम्। एतद्विस्तरस्तु अस्मत्कृतभानुमतीतो विज्ञेयः ।।३१/१६।।
હ વેદાન્તીમાન્ય મોક્ષલક્ષણ પણ દોષગ્રસ્ત છે ગાથાર્થ :- અવિદ્યા નિવૃત્ત થતાં કેવલાત્માની અવસ્થિતિ = હાજરી તે મુક્તિ- આમ વેદાન્તીઓ १. मुद्रितप्रतौ 'सेत्याह' इत्यशुद्धः पाठः । हस्तादर्श शुद्धः पाठो वर्तते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org