________________
२११६
• पर्यायनित्यताविधानम् •
द्वात्रिंशिका - ३१/१३
'पूर्वचित्तनिवृत्तिः साऽग्रिमाऽनुत्पादसङ्गता । इत्यन्ये श्रयते तेषामनुत्पादो न साध्यताम् । । १३ ।। पूर्वेति । अग्रिमानुत्पादसङ्गता = अग्रिमचित्ताऽनुत्पादविशिष्टा पूर्वचित्तनिवृत्तिः सा मुक्ति:
( न्याया.प्र.१ / पृ.२०, स्या. क. ९ / ४- पृ. ११) । प्राग्वत्प्रकृतेऽपि
ध्रुवद्रव्यव्यपेक्षायां पर्याये सति चाऽऽश्रिते । अस्यां विजयतेऽस्माकं द्रव्यार्थनयदेशना ।।
← इति नवीनं पद्यं योज्यम्, अनपेक्षितद्रव्यव्यतिरिक्तपर्यायस्य साङ्ख्यराद्धान्तस्य परमार्थतः द्रव्यार्थिकनयाऽन्तःपातित्वात् । तदुक्तं वादिसिंहैः श्रीसिद्धसेनदिवाकरसूरिभिः सम्मतितर्फे जं कापिलं दरिसणं एयं दव्वट्ठियस्स वत्तव्वं ← ( सं . त . ३ । ४८) इति पूर्वं (पृ. १५९८ ) दर्शितमेव । न च पर्यायाSभ्युपगमे तु कथमस्य द्रव्याऽऽस्तिकनयत्वं स्यादिति शङ्कनीयम्, द्रव्यस्थानीयस्य नित्यपर्यायस्याऽभ्युपगमेन द्रव्यार्थिकताऽनतिक्रमात् । न च पर्यायस्य नित्यत्वमेवाऽसिद्धमिति वाच्यम्, द्रव्यानिवृत्त निरन्वयतया तत्पर्यायस्याऽनिवर्तनादिति गृहाण, तस्याऽप्यन्वयमात्रस्य द्रव्याऽभेदरूपतयाऽनुवर्तमानस्योपलभ्यमानत्वात् । तथा च लोकोऽपि घटकपालानि द्रष्ट्वा तदन्वयमात्रमनुभूय 'घटस्याऽमूनि कपालानि, न शरावादीनामिति विवेचयति । घटपर्यायस्य सर्वथाऽपगमे तु 'घटस्य' इति सम्बन्धो नैव स्यात् । एवमेव पर्यायनिवृत्तौ द्रव्यमपि कथञ्चिन्निवर्तते । इदमेवाऽभिप्रेत्य हरिभद्रसूरिभिः धर्मसङ्ग्रहण्यां → धम्मे नियत्तमाणे नियत्तए इह कहंचि दव्वं पि । तम्मि य अनियत्तंते ण णियत्तति सव्वहा सोऽवि ।। ← (ध.सं.गा. ३४७) इत्युक्तमिति भावनीयमवहितचित्तैः ।
एतेन कर्मनिमित्तोऽविवेकादिनिमित्तो वा यः प्रकृति-पुरुषयोः भोग्य - भोक्तृभावः दुरुच्छेदः तस्योच्छेद एव परमपुरुषार्थतयेष्यत इत्यभिप्रायेण त्रिविधदुःखाऽत्यन्तनिवृत्तिरत्यन्तपुरुषार्थः ← (सां. सू. १ ।१) इत्यादिनाऽऽरभ्य → यद्वा तद्वा तदुच्छित्तिः पुरुषार्थः, तदुच्छित्तिः पुरुषार्थ: ← (सां.सू. ६/७०) इति साङ्ख्यसूत्रं समुपसमहारि कपिलमहर्षिणा इत्यपि व्याख्यातम्, पारमार्थिकस्य प्रकृति-पुरुषयोः भोग्यभोक्तृभावस्योच्छेदे साक्षात्, तदुपधायकस्य च कर्मण उच्छेदे परम्परया परमपुरुषार्थत्वसम्भवादिति भावनीयमनेकान्तवादविशारदैः । एतेन आत्मज्ञानेन नष्टेऽस्मिन् साऽविद्ये सशरीरके । आत्मस्वरूपाऽवस्थानं मुक्तिरित्यभिधीयते । । ← (शि.गी. १० । ३८) इति शिवगीतावचनमपि व्याख्यातम् ।।३१ / १२ ।।
केषाञ्चिद् बौद्धानां मतमपाकर्तुमुपन्यस्यति - ' पूर्वे 'ति । अग्रिमचित्तानुत्पादविशिष्टा स्वाऽव्यवहितઉપચાર કરવાથી તે ઉપચરિત ગાય કાંઈ દૂધ ન આપે. માટે ઉપચારની વાત વ્યાજબી નથી. વાદસભામાં પારમાર્થિક હકીકતની વિચારણા ચાલે ત્યારે ઉપચારથી કાંઈ પદાર્થસિદ્ધિ કરી ન શકાય. (૩૧/૧૨) * અનુત્પાદગર્ભિત મુક્તિ અસાધ્ય- જૈન ડ્ર
ગાથાર્થ :- અગ્નિમચિત્તઅનુત્પાદથી યુક્ત પૂર્વચિત્તનિવૃત્તિ = મુક્તિ- આવું અન્ય લોકો કહે છે. તે વિદ્વાનોના મતમાં પણ અનુત્પાદ સાધ્યતાને પામતો નથી. (૩૧/૧૩)
ટીકાર્થ :- અન્ય બૌદ્ધ વિશેષ કહે છે કે અગ્રિમ
ભાવી ચિત્તના અનુત્પાદથી વિશિષ્ટ એવી
==
१. हस्तादर्शे 'पूर्वश्चैत्त.' इति पाठः । अर्थतः शुद्धोऽपि व्याख्यानुसारेण सोऽशुद्धः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org