________________
• ग्रन्थसमाप्तिः •
२१८९ अधीत्य सुगुरोरेनां सुदृढं भावयन्ति ये । ते लभन्ते श्रुताऽर्थज्ञाः परमानन्दसम्पदम् ।।९।। प्रत्यक्षरं ससूत्राया अस्या मानमनुष्टुभां । शतानि च सहस्राणि पञ्च पञ्चाशदेव च ।।१०।। इति श्रीमहामहोपाध्याय-न्यायविशारद-न्यायाचार्य-श्रीमद्यशोविजयगणिविरचिता
__ द्वात्रिंशद्वात्रिंशिकाः । प्रमादपरिकल्पितं यदि किञ्चिदालोचितं तदस्ति खलु दूषणं मम हि नैव चान्यस्य तत् । यदत्र नवकल्पनाकलिततर्कवाग्वैभवं तदेव जयसुन्दरस्फुरदमोघशिक्षाफलम् ।।८।। पञ्चविंशतिभिः सार्धं प्रव्रजितः स मे गुरुः । पंन्यासः विश्वकल्याणः पुण्यशाली प्रभावकः ।।९।। प्रसन्नाऽऽस्याय सौम्याय चैत्योद्धारोद्यताय हि । भुवनभानुसूरीशशिष्याय गुरवे नमः ।।१०।। अनेकतन्त्रसंवादं तत्र तत्र प्रदर्श्य वै । स्वपरदर्शनानां च समन्वयं प्रसाध्य नु ।।११।। ऋष्यक्षाम्बरराशौ (२०५७) हि विक्रमादित्यवत्सरे । राजनगरमागम्याऽनेकचैत्यविभूषितम् ।।१२।। भुवनभानुसूरीशस्मृतिमन्दिरमध्यके । सिद्धाऽक्षयतृतीयायां व्याख्या द्वात्रिंशिकोपरि ।।१३ ।। मत्त्यैरसर्वविदुरैः विहिते क्व नाम । ग्रन्थेऽस्ति दोषविरह: सुचिरन्तनेऽपि ।।१४।। दीर्घविहार-शिष्याद्यध्यापन-देशनादिभिः । विक्षेपाधिक्यतो बुद्धिमान्द्याद् भ्रमादितोऽपि वा ।।१५।। न्यूनाऽधिकं विरुद्धं वा किमपि ग्रथितं मया । गुणज्ञैः पण्डितैः शोध्यं मयि कृपापरायणैः ।।१६।। टीकेयं शोधिता सम्यक् श्रीकुलचन्द्रसूरिभिः । पंन्यासपुण्यरत्नाद्यैः योगिरत्नैश्च पण्डितैः ।।१७।। न स शब्दो न सा सूक्तिः न स न्यायो न सा कला । यन्न नयलताङ्गं स्याद् अहो ! भारो गुरुः मम ।।१८।। वृत्तावत्र सहस्राधि पञ्चाशदुत्तरं शतम्(११५०) । स्वान्यदर्शनसत्कानां ग्रन्थानामुद्धृतं मुदा ।।१९।। एकादश सहस्राणि पञ्च शतानि(११५००) वै ननु । सन्दर्भवचनान्यत्र पूर्वग्रन्थोद्धृतानि हि ।।२०।। पञ्चाशद्धि सहस्राणि(५००००) श्लोकानामत्र सन्ति हि । प्रमितान्यनुमानेन सन्दर्भसहितानि वै ।।२१।। सर्वज्ञाऽनुगृहीतानि तदृष्टानि पदानि वै । स्वयमेत्य पतन्त्यत्र वाक्यानि च कृतानि तैः ।।२२।। वाक्यैश्च मिलितैरत्र नयलता समुत्थिता । कर्तृत्वं मे कुतोऽत्राऽहं साक्षिभावमुपाश्रितः ।।२३ ।। मदीयं नैव कर्तृत्वं माहात्म्यं गुरु-देवयोः । चित्रं श्रमानुभूति तथाप्यत्र विजृम्भते ।।२४।।
તો ખરેખર કવિની નૂતન રચનાની શોભાનો ઉદય કરવામાં સૃષ્ટિ સમાન હોય છે. (૯) જે લોકો સુગુરુની પાસે આ બત્રીસીની ટીકાને સુદઢ રીતે ભાવિત કરે છે તે શાસ્ત્રોના પરમાર્થને
જાણનારા થઈને પરમાનંદની સંપત્તિને પામે છે. (૧૦) બત્રીસી મૂળગ્રંથ સહિત આ ટીકાનું પ્રમાણ પ્રત્યેક અક્ષરની ગણના કરવામાં આવે તો પાંચ હજાર
પચાસ શ્લોક છે. મૂળ ગ્રંથના ૧૦૨૪ શ્લોક + સ્વોપજ્ઞવૃત્તિના ૪૦૨૬ = ૫૦૫૦ શ્લોક.
આ પ્રમાણે શ્રી મહામહોપાધ્યાય ન્યાયવિશારદ ન્યાયાચાર્ય શ્રીમદ્ યશોવિજય ગણિવરે રચેલ દ્વાત્રિશદ્રદ્ધાત્રિશિકા પ્રકરણ = બત્રીસ-બત્રીસી ગ્રંથ સટીક સંપૂર્ણ થયો.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org